________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५
तेजोवैधर्म्यम् अथेन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकम् * इति । रूपोपलब्धिः, करणकार्या, क्रियात्वात् या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात्, करण कार्येति । यद्पोपलब्धेः सम्पादकं करणं तच्चक्षुरिति । तच्च तैजसम्, रूमादिषु मध्ये नियमेन रूपयञ्जकत्वात् । यद् यद् रूपादिषु मध्ये नियमेन रूपयञ्जक तत्तैजसम, यथा प्रदीपः, तथा च रूपादिषुमध्ये नियमेन रूपव्यञ्जकं चक्षुः, तस्मात्तैजसमिति । चक्षुषो हि रूपवद्रव्यादि प्रकाशकत्वोपलब्धेनियमेन रूपप्रकाशकत्वमसिद्धं स्यादिति रूपादिषु मध्ये' इति पदम् । रूपरसगन्धस्पर्शेषु मध्ये नियमेन रूपव्यञ्जकत्वं विवक्षितमिति ।
अथ तैजसत्वाच्चक्षुषो रूपस्येवोष्मप्रकाशकत्वमपि स्यात्, तस्य हि तैजसत्वात् संयुक्तसमवायस्याविशेषाद्, अन्यस्य च विशेषहेतोरभावादित्याह * अन्यावयवानभिभूतै- 10 स्तेजोऽवयवैरारब्धं चक्षुः * अतो रूपस्यैव व्यञ्जकमिति। तथा होषत्वार्थिवावयवसंयुक्तरनभिभूतैस्तेजोऽवयवैरारब्धं चक्षुरिति रूपस्यैव व्यञ्जकम् ।
अथ इत्यम्भूतारम्भे किं प्रमाणम् ? कार्यनियमः। तथा हि चक्षुर्व्यापाराद् रूपादिषु मध्ये रूपस्यैवोपलब्धिदृष्टा । सा च कारणनियम विना न स्यादित्यन्यस्यासम्भवाद् विशिष्टोत्पादोऽत्र निमित्तम् । स चादृष्टाद् रूपोपलब्धिसम्पादकात् तस्य हि 15 वस्तुव्यवस्थाहेतुत्वादिति ।
भूयस्त्वाद् रूपवत्त्वाच्च रूपज्ञाने प्रकृतिः कारणं तेजः [ वै० सू. ? ] इति । अस्य च सूत्रस्येदं भाष्यम्। रूपं ज्ञायतेऽनेनेति रूपज्ञान चक्षुस्तस्मिन्नुत्पाद्ये प्रकृतिः कारणं तेजो भूयस्त्वान्निमित्तादतो रूपस्यैव प्रकाशकमिन्द्रियञ्चेति । भूयस्त्वं हि भूयसां तेजोऽवयवानां विशिष्टादृष्टोपगृहीतानामीदितरावयवसम्पर्के चारम्भकत्वमिति । यद् वा रूपे ज्ञप्तिानम्, तस्मिन्नेव रूपादिषु मध्ये कारणं चक्षुः। कुत इत्याह भूयस्त्वाद् व्याकृताद् रूपवत्त्वाच्च इति । रूपवत्त्वं हि रूपोत्कर्षो विवक्षितः। अन्यथा हि तैजसत्वादुष्णस्पर्शवत्त्वमपि सम्भाव्यत इति विशेषाभिधानमनर्थकं स्यात् । यद् वा रूपादिषु मध्ये रूपस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते रूपोत्कर्षः। कुतो भवतीत्याह भूयस्त्वादुक्तरूपादिति ।
25
अथ महत्त्वादनेकद्रव्यत्वाच्चक्षुषः कस्मादिन्द्रियेणोपलम्भो न भवति ? प्रदीपस्येव विशिष्टरूपाभावात्, यत्र हि रूपवद्रव्यस्य चक्षुःस्पर्शनाभ्यामुपलम्भ इति ।
For Private And Personal Use Only