________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
रूपविशेषस्तु यत्कृता [47] चि दुपये रूपोलब्धियंदभावाच्च महदनेकद्रव्याश्रयस्याप्यनुपलब्धिः स उद्भवसमाख्यातो रूपवमः सहकारिविशेष इति । दृष्टञ्च रूपविशेषाभावाद् वारिस्थिते तेजसि महबनेकद्रव्यत्वेऽन्यग्रहणम् । उद्भूतरूपस्य प्रदीपस्यान्धकारेऽपि ग्रहणम् । उपभोगार्था हि सृष्टिर्भावानामिति रूपस्यद्भवे चक्षुषोऽन्धकारेऽपि ग्रहणे दुरसत्त्वानामुपभोगानुत्पत्तिः स्यादिति तदुपभोगप्रापकादृष्टवशेनानुद्भूतरूपं चक्षुर्जनितं प्रजापतिना। तथोष्णस्पर्शोद्भवेऽप्यनेकचक्षुःसन्निपातात् प्रीतिकरे वस्तुनि नर्तक्यादी ग्रोष्मसमयेऽत्युष्णैर्मरीचिभिरिव दाहः स्यादित्यदृष्टवशादेवोष्णस्पर्शस्याप्यनुद्भवः कल्प्यत इति।
विषयस्वरूपनिरूपणार्थमाह विषयलक्षणम् विषयस्वरूपम् । * चतुर्विधम् * 10 इति। केन रूपेणेत्याह * भौमं दिव्य सुदर्यमाकरजञ्च * इति। विषयलक्षणेन
शरीरेन्द्रियाद् व्यावृत्तस्य विषयस्यावान्नरवैधर्म्यमेतदिति । तत्र भूमौ भवं भौमम् । काष्ठान्येवेन्धनानि यस्य तेभ्यः प्रभवत्युत्पद्यत इति तत्प्रभवमितीन्धनविशेषादितरस्माद भिद्यते । तच्चोर्ध्वज्वलनस्वभावो यस्येत्यूद्धज्वलनस्वभावकमिति । अभुष्मादपीतरस्माद् भिद्यत एव । यदेवार्थक्रियाकारि तदेव परमार्थसदिति दर्शनस्य सत्तासम्बन्धेनापि सत्त्वाभ्युपगमेऽग्यभ्युपगमवादेन प्रतिषेधार्थम् । क्रियानिरूपणञ्च पचनस्वेदनादिसमर्थमिति । दिव्यमबिन्धनविशेषाद् विशिष्यत इत्याह * अबिन्धनम् इति । आप इन्धनं यस्य, न त्वाप एवेति । तच्च सौरमिति आदित्यसम्बद्धम् । विद्युदादीत्यादिपदेनोल्का ( पाता ) देर्ग्रहणमिति । एवमुदरे भव सुदर्थम् । तच्च भुक्तस्याहारस्य रसादिपरिणामार्थमिति रसमलधातुपरिणामार्थम । परिणामश्च परमाणुषु पूर्वरूपादिनिवृत्तावुत्पन्नपाकजैद्वर्यणुकादिप्रक्रमेण रसादिद्रव्यारम्भ इति वक्ष्यामः पाकजोत्पत्तौ । आकरजञ्चेति । आकराज्जातं सुवर्णादि । आदिग्रहणात् त्रपुसीसलोहरजतानां ग्रहणम् ।
अर्थतेषां तैजसत्वे किं प्रमाणम् ? आगमः । तथा च "अग्नेर पत्यं प्रथमं सुवर्ण द्यौवैष्णवी सूर्यसुताश्च गावः' ।
२०
अथाग्नेतिमतज्जातीयं भवतीत्यनेकान्तादसाधनमेतत् । तथा चाग्नेर्जातं र धूमादि न तज्जातोयम् । तदसत् । अपत्यव्यवहारस्य साजात्यापेक्षयैव दृष्टत्वात् ।
तथाहि, न कार्यमात्रेऽपत्यव्यवहारो दृष्टः । किं तर्हि ? समानजातीये । यथा मानुषापत्यमिति । नन्वेवं चेतनेष्वेवापत्यव्यवहारोपलब्धेरचेतनेऽनुपपत्तिः ? न । तेजोऽधिष्ठानस्य
For Private And Personal Use Only