________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७
वायुवैधर्म्यम् चेतनतया तदपेक्षयास्योपपत्तेः। यद् वा अग्निकार्यस्यानेकत्वेऽप्यग्नेरपत्यं सुवर्णमिति विशेषाभिधानात् समानजातीयत्वं लभ्यते। अविशेषविवक्षायान्तु कार्यान्तरमपत्यमित्यभिदध्यात् । आगमान्तराद्वा विशेषप्रतिपत्तिरित्यलम् । तथा प्रथम सुवर्णमित्यभिधानादग्नेरपत्यं रजतादिकमपि लभ्यतेऽन्यथा हि प्रथममित्यनर्थकं स्याद् विशेषणम् । एवञ्च सति गुरुत्वाधिकरणत्वात् पार्थिवं सुवर्णादीत्यनुमानमागमबाधितत्वादप्रमाणम्। 5 आगमिके हि विषयेऽनुमानप्रवृत्तः प्रतिषेधात् ।।
अर्थतेषां तैजसत्वे रसाधुपलब्धिस्तहि कथम् ? संयुक्तसमवायात् । तथाहि, संयुक्तं सुवर्गादौ पार्थिवं द्रव्यम्, तत्र समवेता रसादय उपलभ्यन्त इत्याह * तत्र संयुक्तसमवायाद् रसाद्यपलब्धिः * इति । अथ द्रवत्समध्येवमस्तु, किमर्थ तस्य तेजोगुणत्वमिति चेत्, न । पार्थिवादस्य विशेषोपलब्धः । तथाहि पार्थिवं लाक्षाद्यग्निसंयोगाद् भस्मतामा- 10 पद्यमानं दृष्टम्। सुवर्णादौ च भृशमप्यग्निसंयोगातिशयेन द्रवत्वमेव। उष्णस्पर्शा नुद्भवश्चात्रादृष्टात् ।
वायुत्वाभिसम्बन्धाद् वायुः । स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान् । स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजो गुणविनिवेशात् सिद्धः। 'अरूपिष्वचाक्षुष'-वचनात् सप्तसंख्यादयः। 15 'तुणकर्म'-वचनात् संस्कारः। स चायं द्विविधोऽणुकार्यभावात् । तत्र कार्यलक्षणश्चतुर्विधः। शरीरमिन्द्रियं विषयः प्राण इति । तत्र शरीरमयोनिजमेव धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यो जायते मरुतां लोके पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याधनभिभूतैर्वाय्ववयवैरारब्धं 20 शरीरव्यापि त्वगिन्द्रियम् । विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस्तिर्यगगमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः। तस्याप्रत्यक्षस्यापि नानात्वं संमूर्छनेनानुमीयते। संमर्छनं पुनः समानजवयोविरुद्धदिक्रिययोखिोः सावयविनोरूर्ध्वगमनेनानुमीयते। तदपि तृणादीनामूर्ध्वगमनेनेति । प्राणोऽन्तःशरीरे
For Private And Personal Use Only