________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
रसमलधातना प्रेरणादिहेतुरेकः सन् क्रियाभेदात् प्राणापानादिसंज्ञा लभत इति ।
इदानीं वायोरुदेशवतो लक्षणपरीक्षार्थ * बायुत्वाभिसम्बन्धात् * इत्यादिप्रकरणम्। वायुरिति लक्ष्यनिर्देशो वायुत्वाभिसम्बन्धादिति लक्षणम्। वायुत्वेनाभिसम्बन्धो वायुत्वेनोपलक्षितः समवाय इति ! समवायो ह्यतिव्यापकत्वादलक्षणं स्यादिति वायुत्वपदम् । वायुत्वञ्चासम्बद्धभपक्षधर्मतया गमकं न स्यादिति पक्षधर्मताज्ञापनार्थमभिसम्बन्धपदम् । तथा च वायुत्वेनेतरस्माद् भिाले, वायुत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते वायुत्वेनाभिसम्बद्धाः यथा क्षित्यादयः, न च तथा वायुत्वेनानभि
सम्बद्धो बायुः, तस्मादितरस्माद् भियत इति । व्यवहारो वा साध्यते। शेषञ्च 18 लक्षणस्य दूषणप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम् । तथा वायुशब्दस्य सामान्यवानर्थ
इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् वाक्यं व्याख्येयम् ।
समवायित्व गुणवत्त्वप्रतिपादनार्थ स्पर्शादिवाक्यम्। स्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्यानौ तद्वानिति । स्पर्शस्य साधारणत्वादन्यस्माद् भेदकत्वाभावादित्यसाधारणतामाह * स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः । इति । अनुष्ण इत्युष्णस्पर्शव्यवच्छेदः । अशीत इति शीतस्पर्शात् । अपाकज इति पार्थिवात् । स च गुणविनिवेशाद् द्वितीयाध्याये सिद्धः “वायुः स्पर्शवान्” ( वै० सू० २।०१४ ) इत्यनेन सूत्रेण ।
15
अत्र च स्पर्शवानिति सामान्यशब्देनापि अर्थादयं विशेषो विवक्षितोऽनुष्णाशीतत्वे सत्यपाकजस्पर्शवानिति । 'अरूपिष्वचाक्षुषत्वात्” ( वै० सू० ४।१।१२ ) इति । सूत्रेण संख्यादयः सिद्धाः।
तथाहि, रूपविशेषवति द्रव्ये चाक्षुषास्तविपरीते चाचाक्षुषाः, इत्यन्यपरेणापि सूत्रेण अरूपिषु संख्यादीनां सद्भावोऽभिहित एव । तथा चारूपिषु समवेताः संख्यादयः परं चक्षुर्लाह्या न भवन्तीति प्रतिषेधः। तथा * तृणकर्मवचनात् * इति "वायुसंयोगात्तृणे कर्म" ( वै० सू० ५।१।१४ ) इति सूत्रं दर्शयति ।
वायुसंयोगश्च तृणकर्मोत्पत्तौ सापेक्ष: कारणमिति प्रयत्नादेरभावाद् वेगापेक्षः कारणमिति संस्कारः सिद्धः ।
For Private And Personal Use Only