________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
वायुवैधय॑म् तथा वायुत्वसामान्यस्य भेदाधिष्ठानत्वादिति तत्समर्थेनाल्लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थम्, अद्वैतवादिप्रतिषेधार्थ बीजसद्भावप्रतिपादनार्थञ्च * स चायं द्विविधोऽणुकार्यभावात् * इति वाक्यम् । तथा ह्यणुस्वभावो नित्यः कार्यस्वभावस्त्वनित्य इति ।
अवान्तरवैधयं दर्शयति कार्यलक्षण: * । कार्यस्वभावः । चतुर्विधः इति। केन रूपेणेत्याह * शरीरमिन्द्रियं विषयः प्राण * इति ।
शरीरोत्पत्तिमाह शरीरमयोनिजमेव इति । अयोनिजञ्च शुक्रशोणितसन्निपातमनपेक्ष्योपजातम् । * धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यः * इति । तथाहि, वायवीयाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, क्षित्यादि च निमित्तकारणमिति । तच्च ४ मरुतां लोके * सिद्धमागमात् । अथ वायोस्तिर्यग्गति- 10 शीलत्वात् क्षणिकत्वाच्च तदारव्धशरीरमुपभोगाजनकं स्त्रादित्याह पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् ४६ इति ।
इन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकम् * इति । तथाहि, स्पर्शोपलब्धिः, करणकार्या, क्रियात्वाद् या या क्रिया सा सा करणकार्या, यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति । यद् यत् स्पर्शोपलब्धेः 15 सम्पादक करणं तद् वायवीयम्, रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकं तद् वायवीयं दृष्टम्, यथा व्यजनानिलः, तथा च रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकं त्वगिन्द्रियम्, तस्माइ वायवीयमिति। त्वगिन्द्रियस्य' स्पर्शवद्रव्यादिव्यञ्जकत्वोपलब्धेनियमेन स्पर्शव्यञ्जकत्वमसिद्धं स्यादिति रूपादिषु मध्य इति विशेषणम् । व्यजनानिले तु तद्गतस्पर्शव्यक्तौ यद्यपि रूपाद्यसम्भव- 2) स्तथापि शीनादिस्पर्शव्यञ्जकत्वसद्भावाद् विशेषणसद्भावः।
अथ वायवीयत्वाविशेषे कस्मात् किञ्चिदेव स्पर्शव्यञ्जकमिन्द्रियमिति त्वगिन्द्रियञ्चेत्याह * पृथिव्याद्यनभिभूतैः * वायवीयविशिष्टादृष्टोपगृहीतैरीषदितरावयवसंपृक्तैः शुद्धैर्वा आरब्धम् । अतः स्पर्शस्यैवाभिव्यञ्जकमिन्द्रियञ्चेति । तच्च * शरीरव्यापि * सर्वत्र स्पर्शोपलम्भाद् विज्ञातम् । तस्य च संज्ञा * त्वगिन्द्रियम् * 25 इति । त्वगिति शरीरावगुण्ठकं चर्म, तत्स्थानमिन्द्रियम् उपचारेण त्वगिन्द्रियमित्युक्तम् ।
For Private And Personal Use Only