________________
Shri Mahavir Jain Aradhana Kendra
९०
5
10
15
20
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
अथ त्वगिन्द्रियस्य विशिष्टोत्पादे कि प्रमाणम् ? कार्यनियमः । तथा च रूपादिषु मध्ये स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते कारणनियमः । स चान्यस्यासम्भवाद् विशिष्टोत्पादे निमित्तमिति कल्प्यते ।
अस्य च सूत्रस्येदं भाष्यम् “भूयस्त्वात् स्पर्शवत्त्वाच्च स्पर्शज्ञाने प्रकृतिर्वायुः” ( लुप्तं वै० सू० ) इति । स्पर्शो ज्ञायतेऽनेनेति स्पर्शज्ञानमिन्द्रियमिति । तस्मिन्नुत्पाद्ये प्रकृतिः कारणं वायुः, भूयस्त्वान्निमित्तात्, अतस्तदेवेन्द्रियं रूपादिषु मध्ये स्पर्शस्यैव व्यञ्जकमिति । भूयस्त्वादिति । भूयसां विशिष्टादृष्टोप गृहीतानां वाय्ववयवानाम् ईषदितरावयवसम्पर्केरारम्भकत्वम् ।
यद् वा स्पर्शे ज्ञप्तिर्ज्ञानम्, तस्मिन्नेव रूपादिषु मध्ये प्रकृतिः कारणं वायुः । कुत इत्याह भूयस्त्वाद् व्याकृतात् स्पर्शवत्त्वाच्चेति । स्पर्शवत्त्वञ्चास्य स्पर्शोत्कर्षो विवक्षितः ।
यद् वा स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञातः स्पर्शोत्कर्षः, कस्माद् भवतीत्याह भूयस्त्वान्निमित्तादिति ।
ननु सर्वमेतद् असम्बद्धम्, वायुसद्भावे प्रमाणाभावात् । न । प्रत्यक्षेणोपलम्भात् । तथा हि स्पर्शनव्यापाराद् अपरोक्षज्ञानमुत्पद्यमानं दृष्टम् 'वायुर्वाति, शीतो वायुः, उष्णो वायुः' इति । न चेदं लिङ्गलिङ्गिसम्बन्धानुस्मरणपरामर्शज्ञानानन्तरमुत्पद्यत इति नानुमानप्रभवम् । शब्दं विनाप्युत्पत्तेनं शाब्दम् इतीन्द्रियानुविधानाद् इन्द्रियजम् । यच्चापरोक्षज्ञानं तत्प्रत्यक्षम् ।
अथ "महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् " (वै० सू० ४ ११६) इति सूत्रविरोधः, न । सूत्रार्थापरिज्ञानात् । तथा च सूत्रार्थः, अपरोक्षज्ञानसद्भावे सति समस्तं व्यस्तच लक्षणमिति ज्ञेयम् । यत्र ह्यपरोक्षं ज्ञानं तत्रामीषां समस्तव्यस्तानां कारणत्वम् । तथा ह्यात्मा महत्त्वादेव प्रत्यक्षः । वायुस्तु महत्त्वानेकद्रव्यवत्त्वाभ्याञ्च । यत्र च चक्षुःस्पर्शनाभ्यां विज्ञानं द्रव्ये तत्र समस्तं लक्षणमिति । प्राधान्यन्तु यथा दर्शनमभ्युपेयम् । तथा हि रात्रावग्निर्दूरेऽयुपलभ्यते रूपातिशयात् । महत्त्वानेक द्रव्यवत्त्वेऽप्यग्रहणं पर्वतादेरिति रूपस्य प्राधान्यम् । एवमालोक सद्भावे दूरेऽपि पर्वतादे ग्रहणम् । महत्त्वे तु अल्पप्राधान्यमित्युत्प्रेक्ष्यम् ।
For Private And Personal Use Only