________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वायुवैधर्म्यम् अथ यत्र स्पार्शनप्रत्यक्षत्वं तत्र दर्शनस्यापि व्यापारो दृष्ट ओघशब्दादी, संख्यादयश्च प्रत्यक्षा इतीहापि तथाभावः स्यात् । न चास्त्यतः स्पर्शमात्रमेव प्रत्यक्षम्, वारिस्थिते तेजस्युष्णतावदिति । यथा वारिस्थिते तेजसि आश्रयाप्रत्यक्षत्वेऽप्युष्णताग्रहणं तद्वदिहाप्याश्रयाप्रत्यक्षत्वेऽपि स्पर्शस्यैव ग्रहणमिति ।
नैतदेवम् । वारिस्थिते तेजसि रूपस्यानद्भूतत्वात् स्पर्शमात्रस्य प्रत्यक्षत्वं । युक्तम् । यत्र हि रूपोद्भवः कारणं प्रत्यक्षत्वे तत्रावश्यं चक्षुषापि ग्रहणम्, संख्यादयश्च प्रत्यक्षाः। रूपानुद्भवे च न ग्रहणमिति । दृष्टश्च वायौ न रूपविशेषः प्रत्यक्षतायां कारणमिति चक्षुषा अग्रहणम् । संख्यादेरप्रत्यक्षत्वं युक्तम्।
अथ रूपविशेषाभावेऽप्रत्यक्षत्वमेव स्यादिति चेत् । न । आत्मना व्यभिचारात् । तथाहि, आत्मा रूपविशेषाभावेऽन्यन्तःकरणप्रत्यक्षः। संख्पादयः प्रत्यक्षा अप्यात्मनि 10 रूपविशेषाभावादेव अप्रत्यक्षा इति ।
__ अथ द्रव्यस्पार्शनप्रत्यक्षत्वं रूपविशेषसद्भावे सत्येव दृष्टं घटादी। तथा ( च ) रूपस्पर्शव्यतिरिक्तद्रव्यालम्बनत्वेऽनुसन्धानज्ञाने च प्रमाणमस्ति 'यमहमद्राक्षं चक्षुषा तमेवैतहि स्पृशामि, यं वा अस्प्राक्षं स्पार्शनेन तं पश्यामि' इति । न च वायावेतदस्तीति स्पर्शमात्रालम्बनमिति चेत् । तदेतदसत् । रूपं विनापि वायोः स्पार्शनेन प्रत्यक्षत्वात्। 15 अथ साध्यमेतत् । न । दृष्टस्य साध्यत्वे सत्यतिप्रसङ्गात् । तथाहि, स्पर्शनव्यापाराद् वायावपरोक्षज्ञानम् इन्द्रियभावव्यतिरेकाभ्यामुत्पद्यमानं दृष्टमित्युक्तम् । तस्य च साध्यत्वे घटादावपि दर्शनस्पार्शनप्रत्यक्षं साध्यमेव स्यात् । अथेन्द्रियानुविधानान्न साध्यमेतत्, समानं वायावपि। तथेदमनुसन्धानम्, तद् द्वीन्द्रियग्राह्यत्वाद् घटादावुपपन्नम्, वायोरेकेन्द्रियग्राह्यत्वादसम्भवेनातीन्द्रियत्वादिति ।
न चानुसन्धानादेव' घटादिज्ञानस्य रूपादिव्यतिरिक्तद्रव्यालम्बनत्वम् । कि तहि ? घटादिज्ञानस्य विलक्षणत्वाद् रूपादिव्यतिरिक्तार्थालम्बनत्वम्। तत्र चानुसन्धानस्यापि प्रामाण्यमिति । नैवं 'वायुर्वाति' 'शीतो वायुः' इति ज्ञानस्य स्पर्शज्ञानविलक्षणत्वात् तद्व्यतिरिक्तार्थालम्बनत्वम् । न च स्पर्शोपलम्भनादनुमानजं ज्ञानमेतदिति वाच्यम्, अविनाभावसम्बन्धानुस्मरणादेरभावात् । अननुभूयमानस्यापि 25 सम्बन्धानुस्मरणादपि [ ? देरपि ] व्यापारस्य' [ ? त्व] कल्पना अन्याय्या,
For Private And Personal Use Only