________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
घटादिज्ञानस्याप्यनुमानताप्रसङ्गात् । वायुप्रत्ययसमानाधिकरणश्चायं प्रत्यय इति वाय्वालम्बन एव।
___ अन्ये तु अनुमानेनापि वायोः प्रत्यक्षतां व्यवस्थापयन्ति, स्वयं प्रत्यक्षेणोपलब्धोऽप्यर्थः परस्मै प्रतिपाद्यमानोऽनुमानेनैव प्रतिपाद्यत इति मन्यमानाः। तथा च अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानो वायुः, अस्मदादित्वगिन्द्रियप्रत्यक्षः अनुभूतरूपान्यत्वे सति अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानत्वात्, यो योऽनुभूतरूपान्यत्वे सति अस्मदाधुपलभ्यमानस्पर्शाधिष्ठानः स सोऽस्मदादित्वगिन्द्रियप्रत्यक्षः, यथा घटादिः, तथा चानुद्भूतरूपान्यत्वे सत्यस्मदाग्रुपलभ्यमानस्पर्शाधिष्ठानो वायुः, तस्मादस्मदादित्वगिन्द्रियप्रत्यक्ष इति ।
नन्वेवं सर्वेषामप्यतीन्द्रियाणामस्मदादिप्रत्यक्षत्वं स्यात् प्रमेयत्वादिति हेतुना ? न। परप्रतिपत्त्यैव बाध्यमानत्वात् । तथाहि, परो विजानाति ‘न मेऽस्ति परमाण्वादि. विषयज्ञानम्' इति । स्वयमपरोक्षज्ञानसद्भावे सति परप्रतिपादनायानुमानोपन्यासो युक्तः। स च वायावस्ति न परमाण्वादाविति । तथा परमाण्वादिरस्मदादीन्द्रियविषयत्वे परमाण्वादिरूपतां जह्यात्, महत्त्वादियोगिन्यस्मदादीन्द्रियव्यापारोपलब्धेरिति ।
इदानीं प्रत्यक्षेण वायुसद्भावे व्यवस्थापिते विषयनिरूपणार्थमाह * विषयस्तूपलभ्यमानस्पर्शाधिष्ठानम् * इति । उपलभ्यमानश्चासौ स्पर्शाधिष्ठानभूतश्चेति तथोक्तः । अप्रत्यक्षवादिनाम् उपलभ्यमानश्चासौ स्पर्शश्च, तस्याधिष्ठानभूत इति व्याख्या। तत्र चास्मदादिप्रतिपादनाय शास्त्रस्यारम्भाद् अस्मदादिविशेषणमप्यूह्यम् । उपलम्भोऽपोन्द्रियद्वारेणैव विवक्षित इति । अन्यथा हि प्रमाणान्तरेणोपलम्भः शरीरादावप्यस्तीति उपलभ्यमानस्पर्शाधिष्ठानत्वं व्यभिचारि विषयलक्षण स्यात् । एवम् अस्मदादीन्द्रियोपलभ्यमानस्पर्शाविष्ठानत्वाद् इतरस्माद् भिद्यते, विषय इति वा व्यवहत्तव्यः ।
15
तथा न परं विषयलक्षणो वायुरस्मदादीन्द्रियप्रत्यक्षोऽनुमानावगम्यश्चेत्याह * स्पर्शशब्दवृतिकम्पलिङ्गः * इति । स्पर्शश्च शब्दश्च धृतिश्च कम्पश्चेति लिङ्गानि यस्यासौ तथोक्त इति । तथा ह्यनुष्णाशोतत्वे सति अपाजकः स्पर्शः, क्वचिदाश्रितः, गुणत्वात्, यो यो गुणः स स आश्रितो दृष्टः यथा रूपादिः, तथा चायं गुणः, तस्मादाश्रित इति। गुणत्वञ्चास्य सामान्यवत्त्वेऽद्रव्यत्वे च सति नियमेनाचाक्षषप्रत्यक्षात्वदा
25
For Private And Personal Use Only