________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वायुवैधर्म्यम् रसवदिति । अचाक्षुषप्रत्यक्षत्वं घटादावस्तीति नियमग्रहणम् । तथापि स्पर्शत्वादिसामान्ये नियमेनाचाक्षुषप्रत्यक्षत्वम्, न च गुण इति व्यभिचारस्तदर्थ सामान्यवत्त्वे सतीति विशेषणम् । सामान्यवत्त्वंम् द्रव्यादित्रयस्यास्तीति नियमेनाचाक्षुषप्रत्यक्षपदम् । सामान्यवत्त्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वं वाय्वादावस्तीति अद्रव्यत्वे सतीति पदम् । अस्य पक्षधर्मत्वे सति सपौकदेशे वर्तमानस्य अत्यन्तं विपक्षाद् व्यावृत्तस्य अबाधित- 8 विषयत्वाद् असत्प्रतिपक्षत्वेन गमकत्वम् ।
अथास्त्वनुष्णाशीतत्वे सत्यपाकजस्पर्शस्य आश्रितत्वम्, अपाकजत्वे तु किं प्रमाणम् ? पाकजरूपादिवियोगात् । तथाहि, पाकजस्पर्शः पाकजरूपादिसहितो दृष्टो घटादाविति , अस्यापि पाकजत्वे तथाभावः स्यात् । अथ सद्भावेऽप्यनुभूतत्वात् तेषामनुपलम्भः ? तन्न । अन्यत्राभावात् । न हि पाकजस्पर्शोपलम्भेऽपि रूपादीनामन्यत्र 10 अत्यन्तानुपलम्भो दृष्ट इति । न चात्र रूपादीनामस्तित्वे प्रमाणस्तीत्यनुभवानुपपत्तिः । सद्भावेऽनुभवकल्पनोपपत्तेः । अथ असद्भावे किं प्रमाणमिति चेद् अत्यन्तानुपलब्धिरेव । तथाहि, विवक्षितस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति सहचरिता रूपादयो न कदाचिदुपलभ्यन्ते प्रमाणत इत्यसन्तः। तथा पाकजस्पर्शस्य गुरुत्वसाहचर्योपलब्धेरस्यापि पाकजत्वे तत्सद्भावः स्यात् । गुरुत्वसम्बन्धे चोवं पर्णादिधारणा- 15 नुपपत्तिः, तस्यापि गुरुत्वसम्बन्धितया तत्प्रसङ्गात् । न च पाकजस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति पार्थिवस्पर्शविलक्षणत्वान्न पृथिव्यां वर्तते, नाप्युदकतेजसोरनुष्णाशीतत्वात् । अन्यत्रासम्भव एवेति । यत्रायं वर्त्तते असौ वायुरिति ।
तथा आद्यः शुकशुकाशब्दः सन्ततानुमितः, स्पर्शवव्यसम्बन्धकार्यः, विभागजशब्दजशब्दान्यत्वे सति शब्दत्वात्, यो यो विभागजशब्दजशब्दान्यत्वे सति शब्दः स स्पर्शवद्रव्यसंयोगकार्यः, यथा भेरीदण्डसयोगजः शब्दः, तथा चायम्, तस्माद् यथोक्तसाध्य इति। ननु विभागजशब्दादस्य विशेषानुपलब्धेः सन्दिग्धं तदन्यत्वे सतीति विशेषणम् । न। रूपादिमतां धनावयवसन्निवेशभाजा कारण विभागपूर्वकविभागस्य शब्दारम्भकत्वोपलब्धेस्तदभावस्तु अविवादास्पद इति विभागजवाभावात् । तथा विभागजत्वे शुकशुकादिशब्दस्य शाखादिषु कापसमानकालोपलब्धिर्न स्यात् ।
___25 सा तु दृष्टा। न चात्र शाखादिवायुविभागस्य शब्दारम्भकत्वं युक्तम्, कारणविभागजत्वानुपपत्तरतस्तदन्यत्वे सतीति विशेषणमसन्दिग्धमेव ।
For Private And Personal Use Only