________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
धृतिर्धारणम्, आकाशे पर्णादीनामवस्थानम् । तच्च स्पर्शवद्रव्यसंयोगकार्यम्, प्रयत्नाद्यभावे सति धारणत्वात्, यद् यद् प्रयत्नाद्यभावे सति धारणं तत्तत् स्पर्शवद्रव्य. संयोगकार्यम्, यथा आधारगतोदकम्, तथा चेदम्, तस्मात् स्पर्शवद्रव्यसंयोगकार्यमिति ।
पक्षीणां [ ? सन्निपतितानां] मूर्छनमित्याह * संमूर्छनं पुनः समानजवयोर्वाय्वोविरुद्धदिक्रिययोः * । सन्निपातो हि सम्बन्धः । स च कयोः ? * वाय्वोः । किविशिष्टयोरित्याह * समानजवयोः । समानस्तुल्यो जवो वैगो ययोस्तो समानजवी तयोरिति । अन्यथा हि एकस्याल्पजवत्वे बलीयसा अभिभवान्न संमूर्छनमिति । तथा
ह्येकदिक क्रिययोर्न संमर्छन मित्याह [विरुद्धदिक्रिययोः ] विरुद्ध दिक्रिये ययोस्तो 10 विरुद्धदिक्रियाविति । तथा टेकस्य प्राचीनदिग्गमनमन्यस्य च तदभिमुखमागमनमिति क्रिययोविरोधः।
अन्ये तु विरुद्धायां दिशि क्रिये ययोस्तौ तथोक्ताविति मन्यन्ते । अत्राविरोधश्चिन्तनीयः।
अर्थत्थं सन्निपातः कुतः प्रतीयत इत्याह सोऽपि सन्निपात: * सावयविनोरूर्व15 गमनेनानुमीयते । सहावयविभिर्वर्त्तते यौ तौ सावयविनाविति, तदवयवा अपि महान्तोऽवयविन इति ज्ञापनार्थमिदमुक्तम्, अन्यथा हि सावयवयोरिति स्यात् ।
अन्ये त्ववयविनोऽत्र तृणादयो विवक्षिता न तदवयवा इति मन्यन्ते।
अथ वायोरेवोर्ध्वगमनं कथं प्रतीयत इत्याह तदपि तृणादीनामूर्ध्वगमनेनेति * । तथाहि, तृणादीनामूर्ध्वगमनमचेतनत्वान्नोपपन्नं भवति, नापि वेगात्, क्वचिन्मन्दगतित्वाद्, आद्यकर्मोत्पत्तौ च तदभावात् । अन्यस्य च सामर्थ्यानुपलब्धेगवद्रव्य. सम्बन्धोऽनुमीयते। न च तत् पार्थिवम्, आप्यं वा। तस्यापि गुरुत्वाधिकरणतया ऊर्ध्वगमने गुरुत्वरहितं निमित्तान्तरं वाच्यम् । न चात्र अग्नेरूद्धज्वलनस्वभावतया तत्संयोगात् तृणादीनामूर्ध्वगमनम्, इन्धनविशेषाभावेन ऊर्बज्वलनासम्भवात्, तदनुपलब्धेश्च । न
चान्यस्यात्र सामर्थ्यमिति वायुसम्बन्धात् तृणादीनामूर्ध्वगमनमिति ज्ञायते। तस्य 28 तिर्यग्गतिशीलतया नोवं गमनम्, अन्तरालेन् यथा सम्भाव्यत इति वाय्वन्तरेण
प्रतिबन्धः । तथा हि वायुर्बलीयान् अपरेण च बलीयसा प्रतिबन्धात् सन्निपातात् स्वां गति
For Private And Personal Use Only