________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सृष्टिसंहारविधिरीश्वरपरीक्षा च
९५
विरहय्योर्ध्व गच्छति । तत्संयोगाच्च तृणादीनामूर्ध्वगमनमिति सिद्धं तृणादीनामूर्ध्वगमनेन वायोरूवंगमनम् । तेन च सन्निपातः । तस्मान्नानात्वमिति ।
अथ प्राणाख्यस्य वायोरुपलभ्यमानस्पर्शाधिष्ठानतया विषयान्तर्भावेऽपि प्राधान्यज्ञापदार्थ विशिष्टार्थक्रियाकारितया पृथगभिधानम् । तथा तत्त्वज्ञानिनो योगाभ्यासे प्रवर्तमानस्य प्राणोऽत्यन्त उपकारीति पृथगुच्यत इत्याह * प्राणोऽन्तःशरीरे रसमल- 5 धातूनां प्रेरणादिहेतुः * इति। तथा ह्यन्तःशरीरे वर्तमानत्वात् प्राण इत्युक्ते रसादिभिर्व्यभिचारः, तरथं रसमलधातूनां प्रेरणादिहेतुरिति । तथापि रसादिप्रेरणहेतुत्वात् प्राण इत्युक्तेऽदृष्टादिषु व्यभिचारः, तदर्थम् अन्तःशरीरे वर्तमान इति । न चादृष्टादयोऽन्तःशरीरे वर्तन्तेऽदृष्टस्य चात्मवृत्तित्वाद्, ईश्वरस्य चावृत्तिमत्त्वादिति । तदेवमन्तःशरीरे वर्तमानो रसादिप्रेरणहेतुत्वाद् इतरस्माद् भिद्यते, प्राण इति वा 10 व्यवहर्तव्यः।
___ यद् वा वायुसामान्यलक्षणानुवृत्तौ सत्यामन्तःशरोरे वर्तमानत्वाद् रसादिप्रेरणहेतुत्वाच्च प्राण इत्युक्ते व्यभिचाराभावः ।
___ अथासौ किमेकोऽनेक इत्याह एकः सन् क्रियाभेदाद्' अपानादिसंज्ञां लभते * इति । अथ वास्तवभेदः कस्मान्नेष्यते ? बाधकोपपत्तेः । तथा हि पञ्च वायवः शरीरे 15 यदि व्याप्त्या वर्तन्ते तदा सम्बन्धादेको वायुर्भवतीति पञ्चत्वनिवृत्तिः । अथाव्याप्त्या, तथाप्येकेन शरीरस्य व्यापनादपरेषामसम्भव' इति मन्यमानः क्रियाभेदेन भेदमाह । स एव मुखनासिकाभ्यां निष्क्रमणशीलो वायुः प्राणाख्यः। अधोनयनान्मलादेरपानः। समं नयनात् समानः । ऊ नयनादुदानः। विविधमनेकप्रकारेण नयनाद् व्यान इति ।
इति वायुवैधय॑म्
इहेदानी चतुर्णा महाभूतानां सृष्टिसंहारविधिरुच्यते । ब्राह्मण मानेन वर्षशतस्यान्ते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतादृष्टानां वृत्तिनिरोघे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणु- 25
For Private And Personal Use Only