SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ वैधयंप्रकरणोपक्रमः ] इहेदानीमेकैकशो वैधय॑मुच्यते । पृथिव्यादीनां नवानां, पुनः पञ्चानामित्यादिरूपेण साधर्म्यमभिधाय प्रत्येक तेषां वैधर्म्यमाह * इह इत्यादिना। इहेति क्षित्यादिमनःपर्यन्तेषु प्रकरणेषु । * इदानीम् * साम्प्रतम् ! * एकैकशो वैवयं उच्यते इति । नन्वेकैकश इति वीप्सायां । शस्प्रत्ययस्य विधानाद् व्यर्थ वीप्साभिधानम् । एकैकशो विनिघ्नन्ति विषया विषसन्निभाः । [?] इति व्यासप्रयोगाददोष इत्येके । प्रत्येकं क्षित्यादेर्वीप्सायां वैधMलाभे पुनर्वीप्साकरणम् अवान्तरभेदेन शरीरादीनां वैधय॑ज्ञापनार्थमिति गुरवो वदन्ति । वैधय॑न्तु विशिष्ट इतरस्माद् व्यावृत्तो धर्मो यस्यासौ विधर्मा, तस्य भावो वैधर्णम् । असाधारणस्तत्त्वव्यवस्थापको धर्मः, केवलव्यतिरेक्यनुमानमिति यावत् । द्रव्यग्रन्थे पृथिवीधर्म्यम् पृथिवीत्वाभिसम्बन्धात् पृथिवी। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती । एते च गुण- 15 विनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः। चाक्षुषवचनात् सप्त संख्यादयः । पतनोपदेशाद् गुरुत्वम् । अद्भिः सामान्यवचनाद् द्रवत्वम् । उत्तरकर्मवचनात् संस्कारः। तत्रादाबुद्दिष्टत्वात् पृथिव्यास्तदुच्यते ४ पृथिवीत्वाभिसम्बन्धात् * इति । पृथिवीति लक्ष्यनिर्देशः। पृथिवीत्वाभिसस्तन्धादिति लक्षणम् असाधारणो धर्मः। पृथिवीत्वेनाभि For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy