________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
दिक्कालयोः पञ्चगुणवत्वम् , सर्वोत्पत्तिमतां निमित्तकारणत्वञ्च ।
तथा * दिक्कालयोः पञ्चगुणवत्त्वम् * विशेषात् साधर्म्यम् । पञ्च गुणा विद्यन्ते ययोस्तौ पञ्चगुणवन्तौ, तयोर्भावः पञ्चगुणवत्त्वम् । पञ्चगुणोपलक्षितः समवायस्ते वा समवेनाः । एतच्च संख्यामात्रसाम्येन साधर्म्यम् ।
तथा च सर्वे च ते, उत्पतिविद्यते येषां ते उत्पत्तिमन्तश्चेति तथोक्तास्तेषामुत्पत्तौ निमित्तकारणत्वमिति । निमित्तपदस्य कारणपर्यायस्याप्यभिधानं समवाय्यसमवायिव्यवच्छेदार्थम् । अन्यथा हि समवाय्यसमवायिसाधारणत्वात् तदपेक्षया असम्भवित्वमेव स्यात् ।
तथा हि निमित्तकारणस्य भावो निमित्तकारणत्वम् । येन सता निमित्तकारणमिति व्यवहारः। स च कारणयोः सतोः समवाय्यसमवायिलक्षणाभावः । तेन सता तथा व्यवहारात् । यद्यपि स्वगतसंख्याधुत्पत्तावस्ति समवायिकारणत्वम्, तथापि सर्वेषामेवेति विशेषणाददोषः ।
क्षितितेजसो मित्तिकद्रवत्वयोगः ।
एवं क्षितिश्च तेजश्चेति क्षितितेजसी, तयो मित्तिकद्रवत्वयोगः साधर्म्यम् । 15 निमित्तादुपजातं नैमित्तिकमिति । निमित्तशब्दः सामान्यशब्दोऽप्यर्थादग्निसंयोगे वर्तते। नैमित्तिकञ्च तद् द्रवत्वञ्चेत्येतेन योगः समवायः साधर्म्यमिति ।
एवं सर्वत्र विपर्ययात् साधर्म्य वैधय॑श्च वाच्यमिति ।
इदानी सुपरहारव्याजेन शिष्यं शिक्षयति, यदेतद् व्याख्यातं मया साधर्म्य तदेव सर्वत्र विपर्ययाद् व्यावृत्तं भेदान्तराद् वैधर्म्य वाच्यमिति ।
यद् वा साधर्म्य व्याख्यातमित्युपसंहारः। विपर्ययाद् वैधयं वक्ष्यमाणमित्यनागतार्थसूचनमिति ।
For Private And Personal Use Only