SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्रव्यषट्कसाधर्म्यम् www.kobatirth.org द्रव्यसाधर्म्यम् तथा रसो विद्यते ययोस्ते रसवती तयोर्भावो रसवत्त्वम्, रसोपलक्षितः समवायः, समवेतो वा रसः । भूतात्मनां वैशेषिकगुणवत्त्वम् । एवं भूतानि चात्मानश्चेति तथोक्तास्तेषां वैशेषिक गुणवत्त्वं साधर्म्यम् । विशेषा एव वैशेषिकास्ते विद्यन्ते येषां [ गुणानाम् ] ते वैशेषिकगुणवन्तस्तेषां भावस्तत्त्वम्, तदुपलक्षितः समवायस्ते वा समवेताः । द्रव्यत्रयसाधर्म्यम् द्रव्यद्वय साधर्म्यम् Acharya Shri Kailassagarsuri Gyanmandir क्षित्युदकात्मनां चतुर्दशगुणवश्वम् । एवं क्षितिश्चोदकञ्चात्मानश्चेति तथोक्तास्तेषां साधर्म्य चतुर्दशगुणवत्त्वम् । तथा हि चतुर्दशगुणा विद्यन्ते येषां ते तद्वन्तः तेषां भावस्तत्त्वम् । समवेतास्ते, तत्समवायो वा । अत्र चान्यगुणानामन्यत्रावृत्तेः संख्यामात्रं सावयं विवक्षितमिति ज्ञेयम् । आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् । आकाशश्र्चात्मानश्चेति तथोक्तास्तेषां साधर्म्य क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् । क्षणिकाश्च ते एकदेशवृत्तयश्चेति तथोक्तास्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां ते तद्वन्तस्तेषां भावस्तत्त्वं तत्समवायस्ते वा समवेताः । गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम् । तत् क्षित्यादिष्वपि समानमित्येकदेशवृत्तिपदम् । तथापि क्षणिकग्रहणमनर्थकम्, एकदेशवृत्तिविशेषगुणवत्त्वस्य अन्यत्राभावात् । तन्न । द्वितीयसाधर्म्यस्य विवक्षितत्वात् । तथाहि, विशेषगुणवत्त्वम् अन्यत्राप्यस्ती क्षणिकग्रहणम् । क्षणिकत्वञ्च आश्रये विद्यमाने सति आशुतरविनाशित्वम् । क्षणिकगुणवत्त्वश्व विभागापेक्षया अन्यत्राप्यस्तीति विशेषग्रहणम् । क्षणिकविशेषगुणवत्त्वञ्च अन्यत्राभावाद् व्यावृत्तं साधर्म्यमिति । For Private And Personal Use Only ५३ १५ 3 10 15 20
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy