________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
व्योमवती
अथ येन सता स्वसमवेतद्रव्यमारभन्त इति विवक्षा तत्र ? त्] यदि स्पर्शवतामेव द्रव्यारम्भकत्वदर्शनात् स्पर्श एव, तथापि स्पर्शवत्त्वेन गतार्थत्वाद् व्यर्थ स्याद् द्रव्यारम्भकत्वम् ।
अत्र एके सहकारिविशेषोपचितस्पर्श द्रव्यारम्भकत्वम्। स्पर्शवतां भावः स्पर्शवत्त्वम्, स्पर्शोपल क्षतः समवाय इति परिहारं ब्रुवते । द्रव्यत्रयसाधर्म्यम्
त्रयाणां प्रत्यक्षत्वरूपवन्त्वद्रवत्ववत्वानि ।
तथा पृथिव्यादीनां त्रयाणां साधर्म्यमाह प्रत्यक्षत्वञ्च, रूपवत्वञ्च, द्रवत्ववत्त्वञ्चेति । तथोक्तानां प्रत्यक्षाणां भावः प्रत्यक्षत्वमपरोक्षज्ञानविषयत्वम । तेन सता 10 प्रत्यक्षाणीति व्यवहारात् । महत्त्वादिकारणयोगो वा। आत्मादेस्तु प्रत्यक्षतायां साधर्म्यमात्रम्, अप्रत्यक्षत्वे च व्यावृत्तमिति ।
अन्ये तु अर्थतया भावाद् द्वीन्द्रियविवक्षया प्रत्यक्षत्वमत्र विवक्षितम्। तच्च आत्मादिषु नास्तीति व्यावृत्तं साधर्म्यमिति मन्यन्ते । निर्विकल्पकसविकल्पकज्ञान
विषयत्वञ्च न व्यावृत्तमात्मन्यपि भावात् । तथा च अहमिति शब्द: पृथिव्यादिशब्द15 व्यतिरेकादात्मनि वर्तत इत्युपलब्धसमयस्य तत्स्मरणाद् भवत्येव सविकल्पकज्ञानमिति ।
तथा रूपं विद्यते येषां तानि रूपवन्ति, तेषां भावो रूवत्त्वम्, रूपसमवायः समवेतं वा रूपमिति। तच्चाविवक्षितविशेषम् । अन्यथा हि क्षित्यादिव्यावृत्तरूपाधिकरणमेवेति ।
तथा द्रवाणां भावो द्रवत्वम्, समवेतो द्रवत्वगुणस्तत्समवायो वा । अवापि 20 न विशेषविवक्षा। अन्यथा क्षितितेजसोनैमित्तिकमपाञ्च सांसिद्धिकमिति विशेष
एव स्यात् । द्रव्यद्वयसाधर्म्यम्
द्वयोर्गुरुत्वं रसववञ्चेति ।
एवं द्वयोः पृथिव्युदकयोर्गुरुत्वं रसवत्त्वञ्च साधर्म्यम् । तथा हि गुरो वो गुरुत्वम्, समवेतो गुरुत्वगुणस्तत्समवायो वा।
For Private And Personal Use Only