SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्रव्यसाधर्म्यम येषाञ्च आसंसार मण्डलानि इन्द्रियाणि तेषामशेषविषयग्रहणप्रसङ्गः । अथ अदृष्टवशान्नियतदेशे वृत्तिव्यज्यत इति चेत्, अत्र प्रवृत्तीनां तादात्म्ये न किञ्चिदुक्तं स्यात् । व्यतिरेके तु तदेव इन्द्रियमिति संज्ञा मेदमात्रमेव । अथ नियतविषयावबोधान्यथानुपपत्त्या तदाकारतयैवेन्द्रियस्य परिणामो निश्चीयते ? तन्न | अन्यथाप्युपलम्भात् । तथा हि नियतार्थसन्निकर्षेऽप्युपलम्भो घटत एव । न च व्यापित्वं परस्याभीप्सिततरमिति नेह प्रतन्यते । परिणामपक्षश्च न सम्भवतीति वक्ष्याम इत्यलम् । द्रव्यचतुष्टयसाधर्म्यम् Acharya Shri Kailassagarsuri Gyanmandir तथा बाह्येन केन्द्रियेण गृह्यन्त इति बाह्येकेकेन्द्रियग्राह्यास्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां तानि तद्वन्ति तेषां भावो बाह्येके केन्द्रियग्राह्यविशेषगुणवत्त्वम् । समवेता हि ययोक्ता गुणास्तदुपलक्षितो वा समवायः । गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम् । विशेषगुणवत्त्वं स्वात्मन्यस्तीति वाह्येन्द्रियग्राह्यग्रहणम् । इन्द्रियग्राह्याश्च संख्यादयोऽपि भवन्ति न च विशेषगुणाः । तथा हि एकेक ग्रहण मनर्थकं बाह्येन्द्रियग्राह्यविशेषगुणवत्त्वस्यान्यत्राभावात् । सत्यम्, तथापि द्वितीयं साधर्म्यमित्यदोषः । तथा हि संख्यादेद्वन्द्रियग्राह्यत्वादे केन्द्रियग्राह्यग्रहणम् । एकेन्द्रियग्राह्यत्वञ्च रूपादिष्वसम्भवि स्यात् । न हि एकमिन्द्रियं सर्वेषां प्रकाशकमित्येके कग्रहणम् । तथाप्यन्तःकरणस्य बाह्येन्द्रियाद्यधिष्ठानद्वारेण व्यापारासम्भवित्वमेवेति बाह्यग्रहणम् । एवञ्च बाह्येकै केन्द्रियग्राह्यगुणवत्त्वं विशेषपदत्यागेन द्वितीयं साधर्म्यमिति । चतुर्णा द्रव्यारम्भकत्वस्पर्शवत्ये । तथा चतुर्णां द्रव्यारम्भकत्वं स्पर्शवत्त्वञ्चेति द्रव्यारम्भकत्वस्पर्शवत्त्वे । तन्न ज्ञायते केषामिति, विशेषानभिधानात् पृथिव्यादीनामित्यनुवर्त्तनीयम् अनन्तरत्वादिति । किं पुनर्द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम् ? द्रव्योत्पत्तौ समवायिकारणत्वं कार्यद्रव्यस्य समवायः । तेन हि सता द्रव्यं द्रव्योत्पत्तौ समवायिकारणमिति व्यवहारात् । तथाहि द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम्, येन सता द्रव्यमुत्पादयन्तीति न विवक्षितम् । किं तर्हि ? येन सता द्रव्यमारभन्त इति, द्रव्योत्पत्तौ समवायिकारणानीति व्यवहारः । स च द्रव्यसमवायेन सता भवतीति द्रव्यारम्भकत्वं द्रव्यसमवाय एव । For Private And Personal Use Only ५१ 5 10 15 20 25
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy