________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
यच्च महदनुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम् । तथाहि, चक्षुर्वहिर्गत बाह्यालोकसम्बन्धाद् विषयपरिमाण सुत्पद्यत इति महदाद्यर्थप्रकाशकं नाभौतिकत्वादिति ।
यच्चोक्तं तैजसत्वाद्रपस्यैव प्रकाशकं स्पादित्येतदसत् । प्रदापे दर्शनात् । न हि प्रदोपस्तैजसत्वापस्यैव प्रकाशको दृष्टः । किं तहि ? रूपद्रव्यसामान्यादेरिति । एतावानेव विशेषश्चक्षुषः, अतस्तैजसत्वं न विरुध्यत इति । रूपादिषु ये नियमेन रूपस्यैव प्रकाशकत्वं ते सवेऽमानमिति वक्ष्यामः । नियमेन गन्वादिप्रकाशकत्वञ्च पार्थिवत्वादिषु घ्राणादेरिति ।।
न चैकप्रकृतिकत्वे विषयव्यवस्थोपलव्धेति नानाप्रकृतिकत्वम् । तथाहि, 10 एकस्मात् कारणादुपजाताः प्रदीपभेदाः समानविषया इत्युपलब्धं तद्वद् इन्द्रियेष्वपि
समानविषयत्वं स्यात् । दृष्टा तु प्राणादेर्गन्धादिषु व्यवस्थेति नानाप्रकृतिकत्वम् ।
___ तथा नानाजात्युपादानादीन्द्रियाणि, द्रव्यत्वे सति प्रतिनियतविषयत्वात् । यद् यद् द्रव्यत्वे सति प्रतिनियतविषयं तत्तद् नानाजात्युपादानं दृष्टं यथा व्यजनालि. प्रदीपकस्तूरिकादीनीति, तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि, तस्मान्नानाजात्युपादानानीति । तथाहि, ज्ञानशब्देष्वेफजात्युपादानत्वं प्रतिनियतविषयत्वञ्चेति व्यभिचारः । तदर्थं द्रव्यत्वे सतीति विशेषणम् । न चास्य पक्षधर्मत्वादिमतोऽप्रामाण्यमतिप्रसङ्गात् ।
20
यच्चाभौतिकत्वेऽनुमानमिन्द्रियत्वादिति, तत्र भूतादनिवृत्तमभौतिकम् । तत्प्रतिषेधे च कारणान्तरप्रभवत्वम् , विशेषप्रतिषेधस्य शेषाध्य गुजाविषयत्वादिति साध्यविकलो दृष्टान्तः । तथा च मनसि न भौतिकत्वं नायभौतिकत्वमिति ।
अथ भूतादुत्पत्तिप्रतिषेधेन नित्यत्वम , अत्राप्यभ्युपगमव्याघात:, मनस्यपि नित्यत्वाभ्युपगमात् । इन्द्रियत्वञ्चोक्तविशेषणस्यापरोक्षज्ञानजनकत्वेन भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथासिद्धम् ।
निमूलञ्च इन्द्रियाणामहङ्कारप्रभवत्वम्, तत्सद्भावे प्रमाणासम्भवात् । तथा हि प्रधानसद्भावे सति एषा प्रक्रिया तस्य चासत्त्वं वक्ष्यमाणमिति ।
For Private And Personal Use Only