________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थत्रयसाधर्म्यम् श्रोत्रे तु कर्णशष्कुल्याकाशसंयोगोपलक्षितस्याकाशस्य कार्यत्वात् तदपेक्षया आकाशस्य कारणत्वात् । स्वभावार्थो वा प्रकृतिशब्द इति ।
नन्वाहकारिकत्वादिन्द्रियाणामयुक्तमेतत् । तथा च प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहङ्कारादिन्द्रियाणामुदयः । किमत्र प्रमाणमिति चेदप्राप्यकारित्वम्। तच्च शाखाचन्द्रमसोर्युगपद् ग्रहणाद् विज्ञातम् । अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण 5 चन्द्रमसा च सम्बन्धाद् युगपद् ग्रहणं न स्यात्, अस्ति च, अतोऽप्राप्यकारित्वम् । तच्च भौतिकेषु न सम्भवति प्रदीपादिष्वदर्शनादित्यभौतिकत्वमन्येषामपि प्रतिपत्तव्यं चक्षुदृष्टान्तबलादेव।
___ तथा महद गुप्रकाशकत्वाच्च । यद्धि यावत्परिमाणं तावदेव क्रियां कुर्वद् दृष्टमिति । तथा ह्यल्पपरिमाणं वास्यादि महान्तं वटवृक्षं व्याप्य च्छिदां न करोतीति 10 दृष्टम् । किं तहिं ? स्वव्याप्तप्रदेश एवेति । चक्षुरपि अल्पपरिमाणत्वान्न पर्वतादिपरिच्छेदकं स्यात्, तत्तु दृष्टमतो न भौतिकमिति ।
तथा नियतविषयत्वाच्च । यदि हि चक्षुस्तैजसं स्याद् रूपस्यैव तद्गुणत्वाद् ग्राहक न द्रव्यसामान्यादेरिति । एवं शेषेष्वपि नियमेन स्वगुणग्राहकत्वप्रसङ्गः । न चैतद् दृष्टम् , अतोन भौतिकमिति ।
इतश्च न भौतिकानीन्द्रियाणि इन्द्रियत्वात्, यद् यद् इन्द्रिय तत्तदभौतिक दृष्टं यथा मनः, तथा चेन्द्रियाणि, तस्मान्न भौतिकानीति ।
यत्तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् । व्यवहितार्थानुपलब्ध्या प्राप्तेरुपलम्भात्। अन्यथा हि व्यवहितस्याग्रहणमन्तिके च ग्रहणं न स्याद् अत्राप्तेरुभयत्राविशेषात् । आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधकत्वात् , तथा च प्राप्तिप्रतिषेवं कुर्वदावरणमग्रहणाय 20 कल्प्यते। दृष्टञ्चावरणसामर्थ्यम् , दूरे वा प्रकाशकत्वमतः प्रदीपस्येव प्राप्तार्थपरिच्छेदक वम् । तथा च चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहिताप्रकाशकत्वात्, यद् यद् व्यवहिताप्रकाशकं तत्तत् प्राप्तावर्थपरिच्छेदकं यथा प्रदीपः, तथा व्यवहिताप्रकाशकं चक्षुः, तस्मात् प्राप्तार्थपरिच्छेदकमिति ।
प्राप्तिसद्भावे प्रमाणोपपत्तेः, शाखाचन्द्रमसोः कालभेदेन ग्रहणसद्भावेऽयाशु- 25 भावादुत्पलपत्रशतव्यतिभेदाभिमानवद् युगपद् ग्रहणाभिमानः।
For Private And Personal Use Only