________________
Shri Mahavir Jain Aradhana Kendra
४८
10
15
www.kobatirth.org
अथ नारिकेलद्वीपवासिनां कस्मादेकाकारताप्रतिभासो न भवतीति ? व्यञ्जका● नुपलब्धेः । यथा हि गुणत्वादिसामान्यं नारिकेलद्वीपवासिनां व्यञ्जकानुपलम्भाद् विद्यमानमपि नोपलभ्यते तथा भूतत्वमपीति । किमस्य तर्हि व्यञ्जकमिति ? ब्राह्मणत्वस्येवोपदेशः । यथा हि ब्राह्मणत्वमुपदेशाद् विज्ञायते तद्वद् भूतत्वमपीति ।
20
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
दावनुगतज्ञानस्येव किञ्चिद् बाधकमस्ति । तथा च सामान्ये सामान्यकल्पनायामनवस्था स्यादिति । सामान्यं द्रव्यत्वं सामान्यं गुणत्त्वमिति ज्ञानं सामान्यं विना भवतीत्युक्तम्, न च [ तत् ] भूतं भूतमिति ज्ञाने बाधकमस्ति ।
अथोपदेश एवास्त्वलं सामान्यकल्पनया । यथा अन्यैरुक्तं "भूतत्वं भूतशब्दस्य वाच्यत्वमित्यभिधानाभिधेयनियम नियोगप्रतिपत्तिः, सा च शब्दाद् वृद्धव्यवहाराद् वा अन्वयव्यतिरेकाभ्यां भवतीति ।" (?)
एतच्चासत् | अबाध्यमानानुगतज्ञानस्य निमित्तान्तरकल्पनायां द्रव्यत्वादेरप्यसत्त्वं स्यात् । अस्ति च कृतसमयस्य भूतं भूतमिति ज्ञानं ब्राह्मणो ब्राह्मण इतिवत्, द्रव्यं द्रव्यमिति ज्ञानवच्च । ततोऽस्ति भूतत्वं सामान्यमिति ।
अथ यथा द्रव्येष्वसाधारणः समवायिकारणत्वादिर्व्यापको धर्मः कृतसमयस्य द्रव्यत्वाभिव्यञ्जकोऽस्ति नैवं भूतेष्विति चेत्, न । इन्द्रियप्रकृतित्वादेरसाधारणत्वात् ।
अथ तदुपलम्भेऽप्यकृत समयस्य नानुगतं ज्ञानमिति चेत्, द्रव्यत्वादिष्वपि समानम् । तत्रापि समवायिकारणत्वादेरुपलम्भेऽप्यकृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानं दृष्टमिति ।
अथ कृतसमयस्योत्पत्तेरस्ति द्रव्यत्वादि सामान्यम्, तच्च भूतत्वेऽपि समानमित्यलम् ।
तथा इन्द्रिय प्रकृतीनां भाव इन्द्रियप्रकृतित्वं घ्राणरसनचक्षुस्त्वक्छ्रोत्रकारणत्वं यथासंख्यम् । तच्च वक्ष्यामः पृथिव्यधिकारे भूयस्त्वाद् गन्धवत्त्वादित्यादि (वै० सू० ८/२५ ) सूत्रैरिति ।
१. अत्र सूत्रैरिति बहुवचनेन अनेकसूत्रलाभेऽपि अधुनोपलब्धेषु वै सूत्रेषु (८४२१५) एकमेव सूत्रमुपलभ्यते इति चिन्त्यम् ।
For Private And Personal Use Only