Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
यथा प्रचयाख्यः संयोगः संख्या च परिमाणोत्सत्तौ। न चैवं शब्दः । तथा हि भेरीशब्दो गम्भीरः। तदवयवशब्दाश्च तद्विधर्माण इत्येवं शङ्खादिशब्देष्वप्यूह्यम् ।
न च सर्वस्य सुखदुःखमोहात्मकत्वात् सुखादिदृष्टान्तात् साध्यसाधनमिति मन्तव्यम्, प्रधानवादप्रतिषेधात्, सुखादीनाञ्चात्मगुणत्वात् ।
तथा न स्पर्शवतां गुणः शब्दः, अस्मदादिप्रत्यक्षात्वे सत्ययावद्रव्यभावित्वात्, यो योऽस्मदादिप्रत्यक्षत्वे सत्ययावद्रव्यभावी स स स्पर्शवतां विशेषगुणो न भवति, यथा सुखादिः, तथा चायमस्मदादिप्रत्यक्षत्वे सत्ययावद्रव्यभावी, तस्मान्न स्पर्शवतां विशेषगुण इति । ये च स्पर्शवतां विशेषगुणास्तेऽस्मदादिप्रत्यक्षत्वे सति यावद्रव्य
भाविनः, यथा रूपादयः। अत्रापि पार्थिवपरमाणुरूपादिव्यवच्छेदार्थमस्मदादि19 प्रत्यक्षत्वै सतीति पदम् । न च संयोगादिभिर्व्यभिचारः, पूर्वोक्तन्यायात् । नापि यावद्ः
द्रव्यभावित्वं शब्दस्य, रूपादिवदप्रतीयमानत्वात् ।
तथा आश्रयादन्यत्रोपलब्धेश्च% इति हेत्वन्तरम्, 'च' समुच्चये। न परं पूर्वोक्ताश्याम्, आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवविशेषगुणः शब्द इति । ननु शब्दस्य
यथाकाशमाश्रयस्तस्मादन्यत्रोपलब्धिरसिद्धा, तेनैवोपलम्भात् । न पराभ्युपगमेन 15 भेर्यादेराश्रयशब्देनाभिधानात् । तथा हि भेरीशब्दस्तद्गुणो न भवति, ततोऽन्यत्रोपलभ्य
मानत्वात्, यो यस्ततोऽन्यत्रोपलभ्यते स स तद्गुणो न भवति, यथा सुखादिः, यश्च तद्गुणः स तत्रैवोपलभ्यते यथा रूपादिः, न च तथा शब्दः, तस्मात् तद्गुणो न भवतीति । न च सिद्धमेतत्, शब्दस्य तत्रैवोपलम्भात् । यथा हि भेयाँ शब्द इति प्रतिभासो दृष्टो रूपवत् । न चान्यथा भवितुमर्हतीति ।
न च श्रोत्रस्य तत्रासन्निधानम्, आहङ्कारिकत्वेन व्यापकस्य तत्र सद्भावात् । नापि सर्वशब्दानामुपलब्धिप्रसङ्गोऽदृष्टवशेन नियतदेश एव वृत्तेरात्मलाभादिति । अव्यापकस्य' वा तद्देशं यावत् परिमाणाभ्युपगमः। यत्र चाश्रयप्रतिभासाभावस्तत्र शब्दस्यैव स्वाश्रयपरिमाणद्वारेण श्रोत्रदेशमागमनम् ।
तदेतदसाम्प्रतम् । इह भैयाँ शब्द इति प्रतिभासस्य सन्तानानुमानद्वारेणाधिष्ठानदेश एव प्रतिभासात् ।।
For Private And Personal Use Only