Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
२०
5
10
15
20
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
अथायं विकल्पार्थः, तत्र किं व्याप्त्या वर्त्तते उत, अव्याप्त्या वेति । तत्र रूपा [ ? व ] त् स्वाश्रयव्यापित्वेनाभ्युपगमः, संयोगादिवदव्याप्यत्वं वृत्तित्वेनेति । तथाहि, अवयवेषु अवयवी वर्त्तते समवायवृत्त्या न तु रूपान्तरेणेति स्वभावकल्पोऽपि निरस्तः ।
अथ अवयवी गृह्यमाणो यदि अशेषावयवग्रहणाद् गृह्यते मध्यापरभागावयवा - नामग्रहणाच्चाग्रहणमेव स्यात् । एकावयवग्रहणे तु सास्नामात्रोपलम्भेऽप्युपलम्भः स्यात्, नैतदेवम् । भूयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवीन्द्रियसन्निकर्षेण ग्रहणात् । कार्य सद्भावाच्च कारणचिन्ता प्रवर्त्तत इत्यपरोक्षज्ञाने सिद्धेऽवयविन्येतत्कारणमित्युच्यते । एवं देशभेदेनाग्रहणादिति रूपादिभिर्व्यभिचारः । तथाहि, रूपादयो न देशभेदेन ते तथापि सन्तः परस्परं भिन्नाश्चेति प्रतिभासभेदस्य विद्यमानत्वात् । गवादयोऽपि प्रतिभासभेदादेव भिद्यन्ते न देशभेदात्, निर्देशानामभेरप्रसङ्गात् । एवं तदग्रहे तबुद्धयभावाच्चेत्ययमपि विरुद्धः । तथाहि तेषामवयवानामग्रहे तस्मिन्नवयविनि बुद्ध भाव इत्ययमर्थोऽवयवग्रहेऽवयविनि बुद्धिरित्यवयविनः सत्त्वम् । तथा च विशेषणग्रहणाद् विशेष्यबुद्धेर्न चासत्त्वं न चाप्यभेदः । तथावयविग्रहेऽवयवग्रहो ऽसिद्धः मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणादिति । अयञ्चावयविवादोऽस्मद्गुरुभिविस्तरेणोक्त इति ने प्रतन्यते । सिद्धे चावयविनि प्रायस्तदाश्रिता गुणादयोऽपि सिद्धयन्ति च । द्रव्यादिपदार्थोद्देशप्रकरणम्
तत्र द्रव्येषु प्रतिज्ञां करोति द्रव्याणि परमार्थसन्तीत्य बाध्यमानज्ञानविषयत्वात्, यद् यदबाध्यमानज्ञानविषयं तत्तत् परमार्थसत्, यथा विज्ञानम्, तथा अबाध्यमानज्ञानविषयाण्यमूनि, तस्मात् परमार्थसन्तीति । अत्र पक्षीकृतेष्वबाध्यमानज्ञानविषयत्वमिति पक्षधर्मत्वम् । परमार्थसति च ज्ञाने ज्ञानविषयत्वं वक्ष्याम इति सपक्षे सत्त्वम्, विपक्षाच्च खरविषाणादेर्व्यावृत्तिरिति । विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भादबाधितविषयत्वम् । असत्प्रतिपक्षोपपत्तेश्च प्रामाण्यमिति ।
एवं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि इत्यत्र द्वन्द्वः समासः सर्वेषां स्वातन्त्र्यात् । अत्र च द्रव्याणीति प्रतिज्ञायां द्रव्यत्वयोग: साधनं वक्ष्यति, तथा पृथिव्यादिभेदे च पृथिवीत्वादिविशेषलक्षणमिति । एतानि च सामान्यविशेषसंज्ञयोक्तानि* सामान्यसंज्ञा द्रव्यमिति, विशेषसंज्ञा च पृथिवीत्वादयस्ताभिरुक्तानि । कियन्ति ? *नवैवेति अवधार्यन्ते, न्यूनाधिकप्रतिपादक प्रमाणाभावात् । तथाहि पृथिव्यादिसद्भावस्य वक्ष्यमाणत्वान्न न्यूनता ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226