SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० 5 10 15 20 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अथायं विकल्पार्थः, तत्र किं व्याप्त्या वर्त्तते उत, अव्याप्त्या वेति । तत्र रूपा [ ? व ] त् स्वाश्रयव्यापित्वेनाभ्युपगमः, संयोगादिवदव्याप्यत्वं वृत्तित्वेनेति । तथाहि, अवयवेषु अवयवी वर्त्तते समवायवृत्त्या न तु रूपान्तरेणेति स्वभावकल्पोऽपि निरस्तः । अथ अवयवी गृह्यमाणो यदि अशेषावयवग्रहणाद् गृह्यते मध्यापरभागावयवा - नामग्रहणाच्चाग्रहणमेव स्यात् । एकावयवग्रहणे तु सास्नामात्रोपलम्भेऽप्युपलम्भः स्यात्, नैतदेवम् । भूयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवीन्द्रियसन्निकर्षेण ग्रहणात् । कार्य सद्भावाच्च कारणचिन्ता प्रवर्त्तत इत्यपरोक्षज्ञाने सिद्धेऽवयविन्येतत्कारणमित्युच्यते । एवं देशभेदेनाग्रहणादिति रूपादिभिर्व्यभिचारः । तथाहि, रूपादयो न देशभेदेन ते तथापि सन्तः परस्परं भिन्नाश्चेति प्रतिभासभेदस्य विद्यमानत्वात् । गवादयोऽपि प्रतिभासभेदादेव भिद्यन्ते न देशभेदात्, निर्देशानामभेरप्रसङ्गात् । एवं तदग्रहे तबुद्धयभावाच्चेत्ययमपि विरुद्धः । तथाहि तेषामवयवानामग्रहे तस्मिन्नवयविनि बुद्ध भाव इत्ययमर्थोऽवयवग्रहेऽवयविनि बुद्धिरित्यवयविनः सत्त्वम् । तथा च विशेषणग्रहणाद् विशेष्यबुद्धेर्न चासत्त्वं न चाप्यभेदः । तथावयविग्रहेऽवयवग्रहो ऽसिद्धः मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणादिति । अयञ्चावयविवादोऽस्मद्गुरुभिविस्तरेणोक्त इति ने प्रतन्यते । सिद्धे चावयविनि प्रायस्तदाश्रिता गुणादयोऽपि सिद्धयन्ति च । द्रव्यादिपदार्थोद्देशप्रकरणम् तत्र द्रव्येषु प्रतिज्ञां करोति द्रव्याणि परमार्थसन्तीत्य बाध्यमानज्ञानविषयत्वात्, यद् यदबाध्यमानज्ञानविषयं तत्तत् परमार्थसत्, यथा विज्ञानम्, तथा अबाध्यमानज्ञानविषयाण्यमूनि, तस्मात् परमार्थसन्तीति । अत्र पक्षीकृतेष्वबाध्यमानज्ञानविषयत्वमिति पक्षधर्मत्वम् । परमार्थसति च ज्ञाने ज्ञानविषयत्वं वक्ष्याम इति सपक्षे सत्त्वम्, विपक्षाच्च खरविषाणादेर्व्यावृत्तिरिति । विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भादबाधितविषयत्वम् । असत्प्रतिपक्षोपपत्तेश्च प्रामाण्यमिति । एवं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि इत्यत्र द्वन्द्वः समासः सर्वेषां स्वातन्त्र्यात् । अत्र च द्रव्याणीति प्रतिज्ञायां द्रव्यत्वयोग: साधनं वक्ष्यति, तथा पृथिव्यादिभेदे च पृथिवीत्वादिविशेषलक्षणमिति । एतानि च सामान्यविशेषसंज्ञयोक्तानि* सामान्यसंज्ञा द्रव्यमिति, विशेषसंज्ञा च पृथिवीत्वादयस्ताभिरुक्तानि । कियन्ति ? *नवैवेति अवधार्यन्ते, न्यूनाधिकप्रतिपादक प्रमाणाभावात् । तथाहि पृथिव्यादिसद्भावस्य वक्ष्यमाणत्वान्न न्यूनता । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy