________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
पदार्थोद्देशप्रकरणम्
अथाधिक्योपलब्धस्तदभावोऽसिद्धः । तथाहि, छाया द्रव्यम्, क्रियावत्त्वाद् गुणवत्त्वाच्चेति । क्रियावत्त्वञ्च प्रत्यक्षेणापि ज्ञायते, चक्षुर्व्यापाराद् गच्छतीति ज्ञानोत्पत्तेः, देशान्तरप्राप्तेश्च । तथाहि, गतिर ती, छाया, देशान्तरप्राप्तिमत्त्वात्, यो यो देशान्तरप्राप्तिमान् स स गतिमानुपलब्धः, यथा देवदत्तः, तथा देशान्तरप्राप्तिमती छाया, तस्माद् गतिमती । गुणवत्त्वञ्च
आतपः कटुको रूक्षरछाया मधुरशीतला । इत्यागमात् ।
तदेतदसत् । भासामभावरूपत्वाच्छायायाः। तथाहि, यत्र यत्र वारकद्रव्येण तेजसः सन्निधिनिषिध्यते तत्र तत्र छायेति व्यवहारः । वारकद्रव्यगताञ्च क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति । अन्यथा हि वारकद्रव्यगतं क्रियापेक्षितत्त्वं न स्यात् । यच्चेदं देशान्तरप्राप्तिमत्त्वं तत् किं देशान्तरेण संयोग: 10 समवायो वा ? न संयोगस्तस्यापि साध्यत्वात् । तथाहि, द्रव्यत्वसिद्धौ संयोगः सिध्यति संयोगाद् द्रव्यत्वमितीतरेतराश्रयत्वं स्यात् । अथ देशान्तरप्राप्तिः समवायः ? सोऽयसिद्धः, न ह्येकत्र समवेतोऽन्यत्र समवैतीति। छाया ल्वेकत्र सम्बद्धोपलव्धा पुनर्देशान्तरेऽप्युपलभ्यते । न च क्रियावत्त्व देशान्तरसमवायात् सिध्यति, तस्यायुतसिद्धष्वेव भावादिति, क्रियावत्त्वमसाधनम् । यच्चेदमागमान्माधुर्यं शैत्यं वा छायायास्तदप्युपचारात् । ये हि 15 मधुरद्रव्यस्य शीतद्रव्यस्य वा गुणास्ते छायासंसेवनाद् भवन्तीति तत्कार्यकर्तृत्वेन तथोक्ताः । तस्मात् क्रियावत्त्वाद् गुणवत्त्वाच्च द्रव्यं छायेति न वाच्यम् । न च द्रव्यान्तरमस्तीत्युपपन्नम्, नवैव द्रव्याणीत्यवधारणात् ।
अत्र केचिद् द्रव्याणि नवैव न्यूनाधिकप्रतिपादकप्रमाणाभावे सति व्यवच्छेद्यव्यवच्छेदकभावापन्ननवलक्षणयोगित्वात्, उभयाभिमतघटादिनवद्रव्यादिवदिति हेतुं ब्रुवते। 20 तथाहि, आधिक्यप्रमाणाभावो दर्शित एव । न च लक्ष ......... यथावसरं वक्ष्याम इति । तथा सर्वज्ञेन मुनिना पृथिव्यादिसंज्ञाव्यतिरेकेण संज्ञान्तरानभिधानाद् द्रव्यान्तरासत्त्वमिति । यदिह भावरूपं तत्सर्वं मयोपसंख्यातव्यमिति हि प्रतिज्ञा मुनेः।।
गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः सप्तदश । 'च' 25 शब्दसमुचिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिगुणाः ।
For Private And Personal Use Only