________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
तथा गुणेषु प्रतिज्ञां करोति % गुणाः ॐ परमार्थसन्तः पूर्वोक्तादेव साधनात् । तथा गुणव्यवहारे गुणत्वयोगं साधनं वक्ष्यति । रूपादिभेदे च तद्विशेषलक्षणमिति । ते तु ' * रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाटेषप्रयत्नाश्चेति कण्ठोक्ताः ४ सूत्रकारेणेति बचनवृत्त्याभिहिताः, तांश्च वक्ष्यामः । समासश्चात्र द्वन्द्वः । न्यूनाधिकव्यवच्छेदार्थं सामर्थ्यलब्धाः पुनरुच्यन्ते संख्यया * सप्तदश * इति । ५ 'च' शब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंरकारादृष्टशब्दाः ४ चेति। अदृष्टशब्देन धर्माधर्मयोरभिधानात् सप्त भवन्तीति ।
___ अथ संस्कारस्थ त्रैविध्यादाधिक्यं स्यात् ? न । संस्कारत्वजात्यपेक्षयैकत्वात् । न
चैवमदृष्टत्वं सामान्यमस्तीति। न चान्येपामपि कामक्रोधादीनां सम्भवादुपसंख्यानं 10 कथमिति वाच्यम्, अत्रैवान्तर्भावस्य वक्ष्यमाणत्वात् । * इत्येवम् उक्तप्रकारेण ।
* चतुर्विशतिगुणा: * इति न्यूनाधिकव्यवच्छेदार्थम् । तत्प्रतिपादकप्रमाणाभावे सति परस्परं व्यवच्छेद्यव्यवच्छेदकभावापन्नचतुर्विशतिलक्षणयोगित्वाद् उभयाभिमतघटादिचतुर्विंशतिद्रव्यवदिति ।
अथ निर्गुणत्वाद् गुणानां संख्यायोगोऽनुपपन्नः? न, उपचाराभ्युपगमात् । तथा 15 हि मुख्य बाधकप्रमाणसद्भावे सत्युपचारः कल्प्यते । स च निमित्तापेक्ष इत्यसाधारण
धर्मयोगो निमित्तम् । यत्र हि संख्योपलब्धा तत्रासाधारणधर्मयोगोऽपीति तत्स्मरणादध्यारोपः प्रवर्त्तत इति । व्यापकन्तु निमित्तमर्थक्रियाजनकत्वं वा। नैकार्थसमवायस्तस्याव्यापकत्वात् । तथाहि, गुणकर्मणामेकार्थसमवायो न सामान्यादीनामित्यव्यापक
मुपचारेऽनिमित्तमेतदिति । नापि धर्मरूपसंख्या तव्यतिरेके प्रतिषेधस्य 20 वक्ष्यमाणत्वात्।
अन्ये तु विशेषणविशेष्यभावेनैव संख्यात्र विशेषणमित्युपचारासम्भवं मन्यन्ते । तथाहि, संख्याविशिष्टज्ञानान्यथानुपपत्त्या विशेषणविशेष्यभावस्य द्रव्य इव गुणादौ चाविशेषोपलब्धरुपचारः कथम् ? संयुक्तं समवेतं वा विशेषणमिति नियमानभ्युपगमाच्च। नैतदेवम्। गुणकर्मसामान्यानां समवेतानामेव विशेषणत्वोपलब्धेः। न च गुणेषु निर्गुणतया संख्यासमवायः सम्भवति । असमवेतानाञ्च गुणकर्मसामान्यानां विशेषणत्वे मिथ्याज्ञानाद्यभावः, तद्विशिष्टज्ञानस्योभयत्राविशेषादिति वक्ष्यामः । तस्मादुपचरित एव गुणादिष्वेकादिव्यवहारो व्याख्येयः।
For Private And Personal Use Only