________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पदार्थद्देशप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
उत्क्षेपण पक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । गमनभ्रमणरेचनस्यन्दनो ज्वलन तिर्यक् पवनपतननमनोअमनादयो गमनविशेषा न जात्यन्तराणि ।
तथा कर्मणि प्रतिज्ञां करोति कर्माणि परमार्थसन्ति पूर्वोक्तादेव साधनात् । कर्माणीति व्यवहारे कर्मत्वयोगं साधनमिति वक्ष्यति, उत्क्षेपणादिभेदे च [त्त] त्सामान्यमिति । तथा उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि इति द्वन्द्वः समासः । न्यूनाधिकव्यवच्छेदार्थश्व पञ्चैव कर्माणि इत्यवधारणम् । अत्र तु पञ्चलक्षणयोगित्वं सविशेषणं पूर्ववत्साधनम् ।
अथ भ्रमणादीनामुपलम्भादववारणानुपपत्तिः । न । गमन एवान्तर्भावादित्याह * गमनग्रहणाद् भ्रमणरेचनस्यन्दनोर्ध्वज्वलन तियं पवनपतननमनोन्नमनादयो गमनविशेषाः गमनसङ्गृहीतास्तदा एव । न जात्यन्तराणि *
अन्ये तु गमनविशेष एव न भवन्ति भ्रमणादयः, किं तर्हि ? जात्यन्तराणीति मन्यन्ते । एतच्च असद्व्याख्यानमिति वक्ष्यामः कर्म परीक्षायाम् ।
सामान्यं द्विविधं परमपरश्च । तच्चानुवृत्तिप्रत्ययकारणम् । तत्र सत्ता परं महाविषयत्वात् । सा च सत्तानुवृत्तेरेव कारणमिति सामान्यमेव । द्रव्यत्वाद्यपरम् अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद् विशेषाख्यामपि लभते ।
एवं सामान्ये प्रतिज्ञां करोति सामान्यम् परमार्थसदिति पूर्ववत्साधनम् । सामान्यव्यवहारे तु लक्षणं वक्ष्यमाणं साधनमिति भेदं निरूपयति द्विविधम् * केन रूपेणेत्याह * परमपरञ्च * इति । अनुवृत्तिप्रत्ययकारणम् इति कार्येण सत्तां दर्शयति । तथाहि, यदनुगतज्ञानं द्रव्यगुणकर्मानिमित्तं तदर्थान्तरसम्बन्धाद वक्ष्यामस्तत्परीक्षायाम् । तदेतदसाधारणत्वात् सामान्यस्येतरस्माद् भे रकमपि भवति । तथाहि द्रव्यगुणकर्मानिमित्तमबाध्यमानञ्चानुगतं ज्ञानं न सामान्यं विना भवतीला साधारणमेव । तत्र परापरभेदं निरूपयन्नाह सत्ता परम् * सामान्यमिति । कुतः ? * महाविषयत्वात् * । तथाहि द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वम्,
For Private And Personal Use Only
२३
5
10
15
20
25