________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
व्योमवती सत्ताया द्रव्यादिविषयव्यापकत्वेन महाविषयत्वात् परत्वमिति । यो हि यद्विषयं व्याप्नोति स तदपेक्षया परो यथाला विषयपाथिपेक्षया रहालिषय इति । * सा च सत्तानुवृत्तेरेव कारणमिति मान्यमेव * । यहायसामान्यादिन्यो व्यावर्तते तथापि सामान्य वस्त्वनुवृत्तज्ञानरयैव कारणमिति सामान्यमेव । तथा ५ द्रव्यत्वाद्यपरमिति | द्रव्यत्वमादिर्येषाम् इत्यादिग्रहणात् गुणत्वकर्मत्वपृथिवीत्वादेर्ग्रहणम् । तच्च सत्तापेक्षया * अल्पविषयत्वाद् * अपरमिति । तद्धि सामान्यलक्षणयोगित्वेन * सामान्य सद् * उपचारतोऽत्र * विशेषाख्यामपि लभते ४ । न चोपचारो निमित्तं विना [प्र] वर्त्तत इत्याह / व्यावृत्तेरपि हेतुत्वान् * इति । न केवलमनुवृत्तेरेप, किं तहि ? व्यावृत्त
ज्ञानस्यापि हेतुत्वात् । विशेषणे हि व्यावृत्तज्ञानजनकत्वं दृष्टं तच्चेहायस्तीत्युपचारः 10 प्रवर्तते । मुख्यास्तु विशेषास्तल्लक्षणयोगिन एव ।
नित्यद्रव्यवृत्तयोऽन्त्या विशेषास्ते च खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव।
एवं विशेषेषु प्रतिज्ञां करोति * विशेषाः * परमार्थसन्त इति पूर्ववत्साधनम् । * नित्यद्रव्यवृत्तयः ४ इति। तथा बुद्धचाइयोऽपि नित्यद्रव्येष्वेव वर्त्तन्त इति विपक्षकदेशवृत्तिव्यवच्छेदार्थ नित्यद्रव्येषु वृत्तिरेवेत्यवधारणम् , न चैवं बुद्धयादय इति । नित्यद्रव्येष्वेव वृत्तिरेव एषामिति सावधारणं वाक्यमेतत् । द्रव्यगुणकर्माणि तु नित्यद्रव्येष्वनित्यद्रव्येषु च वर्तन्त इति । सामान्यञ्चाद्रव्येऽपीत्युपपन्नमवधारणम् । नित्यद्रव्येष्वेवेत्यन्ययोगव्यवच्छेदेन नित्यद्रव्येषु वर्तमानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति।
____ अन्ये तु पदार्थापेक्षया लक्षणं विवक्षितमिति नित्यद्रव्येष्वेव वर्तमानत्वं हेतुरिति ब्रुवते । तच्चायुक्तम् । विपक्षकदेशवृत्तेरगमकत्वात् । न च पदार्थापेक्षयाप्ययोगव्यवच्छेदं विना विपक्षैकदेशाद् बुद्धयादेरस्य व्यावृत्तिरिति ।
नित्यद्रव्यवृत्तय इत्यन्त्यपदस्य विवरणमेतत् । तथा च वक्ष्यति नित्यद्रव्याण्युत्पत्तिविनाशयोरन्ते व्यवस्थितत्वादन्तशब्दवाच्यानि। तेषु भवास्तवृत्तयोऽन्त्या इति 25 व्याख्यायन्ते । ते च ४ विशेषा विशेषयन्ति व्यावर्तयन्ति स्वाश्रयमाश्रयान्तरादिति ।।
परीक्षार्थमाह ते चात्यन्तं सर्वदा व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा एव? न सामान्यमपीति।
15
For Private And Personal Use Only