________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थोद्देशप्रकरणम्
तथाहि, समानजातिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः, व्यावृत्तबुद्धिविषयत्वात्, यो यो व्यावृत्तज्ञानविषयः स स विशेषसम्बद्धो यथा स्थाण्वादि, तथा च व्यावृत्तज्ञानविषयाः परमाणवः, तस्माद् विशेषयोगिन इति । व्यावृत्तज्ञानविषयत्वञ्च घटादिषूपलब्धमिति नित्येष्वपि साध्यते द्रव्यत्वेनैव हेतुना। न च गुणादीनामन्यतरस्यैव परमाणुषु व्यावृत्तज्ञानकारणत्वम्। समानजातिगुणक्रियाधारत्वेन विशेषितत्वात् । न च दृष्टान्ते गुणादिविशेषोपलब्धरिति दृष्टान्तदान्तिकयोर्वैषम्यापादनेन विलक्षणविशेषासिद्धिरिति वाच्यम्, सर्वानुमानेषु समानत्वादिति । व्यावृत्तज्ञानजनकत्वेन नित्येषु विशेषाणां सद्भाव इति स्थितम् । विस्तरेण तु विशेषपरीक्षायां परीक्षिष्यन्त इत्यलम् ।
।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स
समवायः ।
अथ * अयुतसिद्धानाम् इत्यादिना समवाये प्रतिज्ञां करोति। समवायः परमार्थसन् पूर्वोक्तादेव साधनादिति। लक्षण नुच्यते, इहप्रत्ययहेतुत्वमन्तरालादर्शनस्यापीति सम्बन्धग्रहणम् । तथाहि, दूराद् ग्रामारामयोरन्तरालमपश्यतामिह ग्रामे वृक्षा इति ज्ञानं दृष्टम् , तथा याकाशशकुनिसम्बन्धेन व्यभिचारः। तद् इहप्रत्ययहेतुः सम्बन्धश्चेति । तथाहि, इहाकाशे शकुनिरिति ज्ञानं दृष्टम्, तद्व्यवच्छेदार्थम् 15 आधार्याधारग्रहणम् । न चाकाशस्याधारत्वमाधेयत्वं वा, अधरोत्तरभावस्याभावात् । यत्र हि संयोगिद्रव्येष्वधरोत्तरभावस्तत्रैवाधाराधेयभावः कुण्डबदरादावुपलब्धस्तदभावश्वाकाशे, तस्य व्यापकत्वेन शकुनि व्याप्य सद्भावात् ।
अथाकाशस्यातीन्द्रियत्वादिहेति ज्ञानं न स्यात् , तस्य ह्यपरोक्षेष्वेव भावात् । तदसत् । अतीन्द्रियेऽयाकाशे इहेति ज्ञानं केवलं भ्रान्तम्, तस्य व्यवच्छेदार्थमुपपन्न- 20 माधार्याधारपदम् । इष्टञ्च भ्रान्तेहज्ञानस्य व्यवच्छेदार्थं सम्बन्धपदम् ।
अन्ये त्वस्य चोद्यस्य परिहारार्थम् आ समन्तात् काशत इत्याकाशम् , वर्त्तत इत्युपचारेणाकाशं रश्मयोऽभिधीयन्ते । ते च प्रत्यक्षमित्युपपन्नमिहाकाशे शकुनिरिति ज्ञानमिति मन्यन्ते । तच्चासत्, मुख्यसद्भावेऽप्युपचारकल्पनायामतिप्रसङ्गात् । उक्तञ्चातीन्द्रियेऽप्याकाशेऽपरोक्षज्ञानं भ्रान्तं तद्व्यवच्छेदार्थं विशेषणमिति । मूर्त्तद्रव्याभावेन चाकाशेन 25 सम्बन्धाभाव एवेति।
For Private And Personal Use Only