________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सविकल्पकज्ञानस्यार्थजत्वविचारः व्यवस्थोपपद्यते क्वचिद् बोधरूपतया समन तरकारणत्वं क्वचिद्रपान्तरेणेति । अतो न स्मरणानन्तरभावित्वं सविकल्पकत्वम् । न चार्थजत्वसिद्धौ नामजात्याशुल्लेखेनोत्पत्तिदंषणमिति । कल्पनात्वस्थासम्भवात् प्रतिसन्धानं द्रव्यसिद्धी प्रमाणम् ।
एवं घटादिज्ञानस्याप्यालम्बनं वाच्यं तस्य हि सम्यग्ज्ञानत्वात्, न रूपादिसमुदायः, रूपादीनां प्रतिनियतेन्द्रियग्राह्यतया तत्समुदायस्पैकेन्द्रियाविषयत्वात् । न 5 चापरमार्थसतो रूपादिसनुदायस्य ज्ञानजनकत्वम् । तस्य चानुपलब्धत्वे नाणूनां सद्भावे प्रमाणमस्ति, तेषां हि कार्यगम्यत्वात् । न चासंहतः परमाणुरस्ति, षट्केन युगपद् योगादिति तस्याप्यसत्त्वं परमार्थतः । असञ्चीयमानश्चास्मदर्शनविषयो न भवत्येवेति घटादिबुद्धनिविषयत्वप्रसङ्गः । न चावाध्यमानज्ञानस्यानालम्बनत्वमित्यभिन्नत्वादभिन्नावयविविषयत्वम् ।
10
अथास्ति वृत्तिविकल्पादिबाधकमिति चेत्, न। तस्याप्रमाणत्वात्। तथाहि,वृत्त्यनु. पपत्तेरसत्त्वमिति । किमिदं स्वतन्त्रसाधनमुत प्रसङ्गसाधनमिति ? यदि स्वतन्त्रसाधनम्, अवयवी धर्मी नास्तीति साध्यमिति प्रतिज्ञावाक्ये पदयोाघातो यथा, इदं नास्ति चेति । हेतोराश्रयासिद्धत्वञ्च धर्मिणोऽप्रसिद्धत्वात् । तथा स्वमते रूपादीनां सत्त्वम् । न च वृत्तिरस्तीति व्यभिचारः समवायानभ्युपगमात् । अथ परव्याप्त्या परस्यानिष्टा- 15 पाइनमिति । परेण हि अवयवी अभ्युपगत इति धमित्वेनोपात्तस्तस्य प्रतिपाद्यत्वादिति । तत्र यदि परेण प्रमाणात् प्रतिपन्नस्तेनैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य । न चानेनैव तस्य बाधाद् तदन्तरेण पक्षधर्मत्वादिति । अथाप्रमाणेन प्रतिपन्नस्तहि प्रमाणं विना प्रमेयस्यासिद्धिरिति वाच्यम्, किमनुमानोपन्यासेन, तस्यापक्षवर्मतया अप्रमाणत्वात् । न च परस्य वृत्त्या सत्त्वं व्याप्तं तदन्तरेणाप्याकाशादावुपलम्भादित्यनेकान्तः स्वरूपासिद्धश्च, वृत्तेः समवायस्य सिद्धत्वात् ।
यच्चेदं नैकदेशेन सर्वात्मना वा वर्तत इत्येवमेकदेशस्यावृत्तित्वात् । न च भेदशब्दस्याभिन्नावयविन्युपपत्तिः, बहुषु दृष्टत्वात् । तथाहि, बहूनामन्यतमाभिधानमेकदेशः, निरवशेषता च सर्वशब्दस्यार्थः। तथा विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् प्रकारान्तरेण वृत्तिः प्राप्नोति । अन्यथा हि न वर्त्तत इति वाच्यम् । न चैकदेशे सति 25 वृत्तिर्यथा वंशस्य स्तम्भेषु, निर्देशानामवृत्ति [त्व] प्रसङ्गात् । परमागूनाञ्च वृत्त्यभावे द्वयणुकादिप्रक्रमेण कार्यानुत्पत्तिः।।
E
20
For Private And Personal Use Only