SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ व्योमवती दर्शनादिति निविषयत्वं सविकल्पकज्ञानस्य, तदसत् । आकारवादप्रतिपेधस्य वक्ष्यमाणल्वान्न शब्दरूपता ज्ञानेऽस्ति। ज्ञानवलक्षण्ये तु सहकारिवैलक्षण्यमेव कारणमित्युक्तम्। द्रव्यासत्त्वे चान्यन्निमित्तं वाच्यं प्रतिसन्धानस्य । अथास्त्येवानादिकालपरिपुष्टबासनेति चेत्, न । तस्याः सद्भावे प्रमाणाभावात् । अथ सविकल्पकं ज्ञानमेव प्रमाणमिति चेत्, न । अन्यथापि भावात् । तथाहि, अर्थसद्भावेऽप्युपपद्यात इति कथं वासनासद्भावे प्रमाणम् । अन्वयव्यतिरेकाभ्यामन्यत्रापि च कार्यकारणभावावगतिस्तौ वेन्द्रियरत्येहापि स्त इति । अथ निर्विकल्पकज्ञानोलत्ताविन्द्रियस्य व्यापारात्तदधीनतया च मविकल्पके पि व्यापार इव संलक्ष्यते न बरततः । तन्न। अक्षणिकत्वे सत्युभयत्रापि व्यापारसम्भवात् । न च निर्विकल्पकज्ञानदेव स तस्मृतिद्वारेण सविकल्पकज्ञानोत्पत्ती कारणमित्यस्ति प्रतिबन्धः । प्रत्यक्षस्थ नियमेन स्वलनविषयत्वेन क्रमाविषयत्वात्, अमानन्तु सामान्यविध मेवेति। न च प्रतिबद्धं लिङ्गमस्ति। कार्यञ्चा यथा सम्भवतीति न क्रमे प्रमाणम् । रबगंवेदनवादिनच विज्ञानं स्वपरिच्छेदे एव प्रमाणं नार्थान्तरस्येति । यदि च 15 बासनव निमित्तम्, सा न विज्ञानादर्थान्तरम् , रूपरसगन्धस्पर्शशब्दज्ञानव्यतिरिक्त स्य निमित्तस्यानभ्युपगमात् । तादात्म्ये तु बोबरूपतया सर्वत्राविशेषाद विकल्पवैचित्र्यं न स्यात् । अथ विकल्पवैचित्र्यादेव वासनावैचित्र्यं न कार्यत इति चेत्, तासाञ्च विज्ञानादभेदे विज्ञानवदेकताप्रसङ्गः, विज्ञानस्य वानेकत्वमनेकार्थतादात्म्यात् । विपर्यये वा तादात्म्यानुपपत्तेः । यदि च वासना विशिष्टज्ञानहेतर्बाह्या चेति, संज्ञामात्रं भिद्येत 20 अर्थो वासनेति । अथ वस्तुरूपैव वासना, न तर्हि तस्या ज्ञानजनकत्वम्, अर्थक्रियाकारित्वस्य वस्तुलक्षणत्वात् । अथ स्मरणानन्तरभावित्वं सविकल्पकत्वम्, तच्चार्थजत्वस्य प्रसाधितत्वान्न दुषणम् । अभ्युपगमे वा निर्विकल्पकस्यापि सविकल्पकत्वप्रसङ्गः । तथाहि, रूपस्मरणानन्तरं रसरसनसन्निपाते रसज्ञानमुत्पद्यते। तत्र च रूपस्मृतेः पूर्वकालभावित्वात् समनन्तरकारणत्वं बोधाद् बोधरूपतेति न्यायादस्तु तस्यापि कल्पनात्वं स्मरणानन्तरभावित्वात् । न चात्र बोधरूपतया समनन्तरकारणत्वमन्यत्र स्मृतिरूपतयेति वाच्यम् । बोधादर्थान्तरस्य स्मृतिरूपस्य' तादात्म्ये सत्यभावात् । न चाभेदे सति For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy