________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविकल्पक ज्ञानस्यार्थजत्व विचारः
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेष संज्ञयोक्तानि नवैवेति । तद्व्यतिरेकेणान्यस्य संज्ञानभिधानात् ।
संशयितान्युत्पन्नयोर्द्रव्य स्वरूपप्रतिपादनार्थमाह तत्र द्रव्याणि इत्यादि । तथाहि, प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणाद् विपर्यस्तव्युदासः । रूपं हि चक्षुषैव गृह्यते स्पर्शस्त्वगिन्द्रियेण । हीन्द्रियग्राह्यन्तु द्रव्यम् । कथमेतत् ? प्रतिसन्धानात् । तथाहि यमहमद्राक्षं चक्षुषा तमेव स्पृशामि यश्वास्पृशं तमेव पश्यामीति । न च द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम् । रूपस्पर्शयो प्रतिनियतेन्द्रियग्राह्यत्वादेतन्न सम्भवतीति ।
3
अथेदं कल्पनाज्ञानमिति चेत् किमिदं कल्पनाज्ञानं नामेति ? अथ क्षणिकत्वान्निर्विकल्पक ज्ञान समकालमर्थविनाशे स्मरणानन्तरमेव तद्भवतीति निर्विषयत्वादप्रमाणमिति चेत्, न । क्षणिकत्वासिद्धौ स्मरणानन्तरभाविनोऽपि निर्विकल्प कज्ञानवदर्थान्वयव्यतिरेकानुविधानादर्थजत्वमेव । अथार्थजत्वे निर्विकल्पक ज्ञानसमकालमेवार्थस्य सद्भावादिन्द्रियाणाञ्चाविचारकत्वेन स्यादेतदिति, तन्न | सहकार्यभावात् । तथाहि, इन्द्रियमर्थेषु सविकल्पक ज्ञानोत्पत्ती सङ्केत स्मरणापेक्षम् । अथ स्मरणे वार्थस्येन्द्रियस्य च किमति - शयाधान मनतिशय निवृत्तिरिष्यते ? न । तस्यैवातिशयत्वात् । तथाहि यद् यस्य सद्भावे कार्यं करोति तत्तस्यातिशयः । स्मरणसद्भावे चेन्द्रियं कार्यंकुदिति स्मरणमेव तस्यातिशयः । स्मरणाद् वा कारकसाकल्यमेवातिशयः सम्पद्यते, तद्वैकल्यश्चानतिशयो निवर्तते । साकल्ये हि कार्यकरणादिति । एते यदाहुः,
यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।
स पचादपि तेन स्यादर्थापायेऽपि नेत्रधीः ।। ( प्र० विनि०, पृ० ४२ ) इति एतदपास्तं भवति, उपयोगाविशेषस्यासिद्धत्वात् । तथाहि निर्विकल्पकबोधे नेन्द्रियस्य सङ्केत स्मरणमस्ति, सविकल्प के त्वस्तीत्युपयोगविशेषः ।
सविकल्पक ज्ञानस्यार्थजत्व विचारः
अथ शब्दाकारं सविकल्पकं ज्ञानम् । शब्दरूपता चार्थे नास्ति, प्रथमेन्द्रियसन्निपात एव सविकल्पकोत्पत्तिप्रसङ्गात् । चक्षुरादिना वा परिच्छेदः, श्रोत्रपरिच्छेद्यत्वेन
For Private And Personal Use Only
१७
5
10
15
20
25