________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
अथ के द्रव्यादयः पदार्थाः ? किंस्वरूपाः ? किञ्च तेपां साधर्म्यम् ? किंरूपश्च वैधय॑म् ?
तदेवं द्रव्यादिसाधर्म्यवैधय॑ज्ञानत्य निःश्रेयसकारणत्वमभ्युपगम्य तत्स्वरूप. परिज्ञानार्थमाह अथ के द्रव्यादयः पदार्याः किंस्वरूपाः किञ्च तेषां साधर्म्य 5 किंरूपञ्च वैधय॑म् ४ इति । द्रव्यादिषु वा नानारूपतया परैरभिवानात् संशये सतीदम् ।
तथाहि, विशेष्यं द्रव्यमिति केचिः ।
क्रयविक्रययोग्यञ्चेत्यादि । विपर्यस्तो वा द्रव्यादीनामसत्वं मन्यमानः। अथ के द्रव्यादयः पदार्थाः । न सन्तीत्याह । तदभावान्न सायं नापि वैवामिति ।
तथाहि, चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्व्यतिरिक्त द्रव्यमस्ति । यच्चेदं घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात् । बाधकञ्च प्रमाणमस्ति वृत्तिविकल्पादि । तथा चावयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमेकदेशे वर्तते व्याप्त्या वा ? एकदेशेन वृत्ताववयका तरप्रसङ्गः । अथैकदेशे
वर्तते, अनेकवृत्तित्वव्याघातः, एकद्रव्यञ्च द्रव्यं स्यात् । तत्र चावयवविभागाभावा15 न्नित्यत्वम्, एकस्य च क्रमयोगपद्याभ्यामजनकत्वम्, रूपाद्यनुत्पत्तिश्च, अनेकरूपादे--
जनकत्वाभ्युपगमात् । अवयवेषु चावयवीति प्रतिभासाभावः, तस्वीकद्रव्यत्वात् । अथ न प्रत्येक परिसमाप्त्या वर्तते, किं तर्हि सर्वावयवेप्वेक एवेति ? तत्राप्येकस्वरूपेणावयवान्तरप्रवृत्ती तेषामेकताप्रसङ्गः, तदवयववृत्तिरूपत्वादवयविनः । स्वरूपान्तरेण
चानेकत्वम्, स्वरूपभेदस्य भेदलक्षणत्वादिति वृत्यनुपपत्तेरसत्वम् । वृत्त्या हि सत्त्वं 20 व्याप्तम्, सा च व्यावर्त्तमाना स्वव्याप्तं सत्त्वं गृही वा व्यावर्तत इत्याशयः । [अ] परस्य
गवाश्वादिवद् भिन्नदेशतया ग्रहणम् । तदग्रहे तद्बुद्ध्यभावाच्च, इत्यवयविनोऽसत्त्वे रूपादिसमुदायमानं घटादय इति, सनुदायः सनुदायिभ्यो नार्थान्तरमिति संवृतिसन्नेव।
एवं विज्ञानमात्रं सर्वम् । ततोऽर्थान्तरस्य सद्भावे प्रमाणाभावादित्येवं शून्यवादि25 वादा अपि यथावसरं निराकर्तव्या इति नेह प्रतन्यते ।
For Private And Personal Use Only