________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
तत्त्वज्ञानहेतुविचारः न च ज्ञानम् । ज्ञानच मिथ्याज्ञानमपि, न च तत्त्वमिति व्यभिचारेऽपि धमिशब्दान सामानाधिकरण्यम् । तत्त्वं हि सम्यक्त्वं ज्ञानधर्म एव ।
अन्ये तु तत्त्वे प्रधानत्वादात्मनि साधयंवैवस्यांच्यामुपजातमिति मन्यन्ते । प्राधान्यन्तु द्रव्यादिपदार्थानां मध्ये पुरुषस्य। तत्र हि अभ्यासवशादुपजातस्य निःश्रेयसकारणत्वाभ्युपगमात् । न च मिथ्याज्ञाने प्रसङ्गो निःश्रेयसहेतुलेन विशेषणात्। 5 मिथ्याज्ञानस्य निःश्रेयसहेतुत्वासम्भवादिति । निःश्रेयसस्य च हेतुर्यथा तत्त्वज्ञानं तथोक्तमेवादिवाक्ये। तच्चात्मज्ञानमितरावविक्तवास्तिरपदार्थज्ञानापेक्षमित्यर्थवद् द्रव्यादिसाधर्म्यवेवयज्ञानम् ।
तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव ।
अथास्तु संग्रहात्तत्त्वज्ञानमवधारणे तु व्याघातः। तथाहि, यदि संग्रहादेव 10 तत्त्वज्ञानम्, सूत्रकारस्य न स्यात् संग्रहाभावात् । अथ संग्रहाद भवत्येव, तदसत् । मन्दमतेः सत्यपि संग्रहे तदभावात् । अथ संग्रहात तत्त्वज्ञानमेव, तन्नास्ति दुःखादेरपि दर्शनादित्याशङ्कापरिहारार्थन् । तञ्चेश्वरचोदना ५६ इत्यादि । तथाहि, अस्मदादेः संग्रहादेव तत्त्वज्ञानम्। यच्च सूत्रकारस्य' ज्ञानं तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादिविशेषादेवेति । न च स एवास्त्विति वाच्यम्, अस्मदादेस्तथाविधधर्माभावात्। 15 तथा संग्रहाद् भवत्येव तत्त्वज्ञानम् यदि नाम * तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादेव समुच्चीयमानावधारणमनिर्दिष्टप्रतिषेधार्थम् । मन्दमतेस्तु विशिष्टधर्माभावान्न भवत्यपि। अस्तु वा संग्रहात् तत्त्वज्ञानमेव न दुःखादिकम्, यदि नाम ईश्वरचोदनाभिव्यक्ताद् धर्मादेव' । यस्य विशिष्टधर्मसद्धावस्तस्याल्पीयसा प्रयासेन तत्त्वज्ञानं सम्पद्यत इति ।
यद् वा कस्माद धर्मस्यादी सूत्रे व्यावर्णनमीश्वरस्य वा नमस्कार इति चोद्यपरिहारार्थ तच्च तत्त्वज्ञानमीश्वरचोदनाभिव्यक्ताद् धर्मादेव भवतीत्यतस्तस्यादौ प्रतिज्ञानमीश्वरस्य च नमस्कार इति। ईश्वरस्य चोदना सकल्पविशेषोऽस्येदमस्मात् सम्पद्यतामिति । तयाभिव्यक्तात् सहकृताद् धर्मात् तत्त्वज्ञानमिति । तथाधर्मस्य सद्भावे किं प्रमाणमित्यपेक्षायामिदमेवावर्तनीयम्' 'ईश्वरस्य चोदनेति'। चोदना हि प्रवर्तकं वाक्यं तत्प्रधानत्वाद् वेदश्योदनेति । सा वेश्वरप्रणीतत्वात् प्रमाणम् । तयाभिव्यक्तात्.. प्रकाशिताद् धर्मादवेति।
20
For Private And Personal Use Only