________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
न च वत्वाप्रत्ययादेव विशिष्टानन्तर्यप्रतिपत्तिः । तस्य हि समानकर्तृकत्वे सति पूर्वकालभावित्वमा भावात् । तथाहि, भोजनानन्तरं शयनादिक्रियाव्यवधानेऽपि भुक्त्वा व्रजतीति प्रयोगो भवत्येव । अत्र वेश्वरप्रणामानन्तरमेव सुनेर्नमस्कारस्तदनन्तरमेव प्रवचनक्रियेति । न वा अप्रतिपक्षनिमाव्युदासोऽवयवचलनादेर्भावादिति ।
* पनार्थधर्मसंग्रहः इति । पदार्थानां धमस्तेिषां संग्रह इत्युत्तरपदप्राधान्येऽपि धर्माणां धर्मिनिष्टतया संग्रहो भवत्येव । धर्मिणां संग्रह इति सुखदुःखसाधनत्वधर्मावबोधे सति प्रवृत्तिनिवृत्त्योभीवाद धर्माणामिह प्राधान्यं न निषिध्यते। तत्त्वज्ञानञ्चात्र प्रधानतया विवक्षितम्, तद् मिषूपसर्जनतयापि लभ्यत एव ।
यहा तत्त्वज्ञानप्रधानक्रियासम्बन्धाद् उभयेषां प्राधान्यमिति पदार्थाश्च धर्माश्चेति समासः । स्वातन्त्र्यं हि प्रधानक्रियासम्बन्ध एव । न धर्मितादात्म्यं धर्माणामिति वक्ष्यामः । पार्थधर्माणां संग्रह इति निबन्धान्तविस्तरोक्तानां संक्षेपेणाभिधानम् । भावव्युत्पत्या तत्त्वज्ञानमित्यपरे ।
सच प्रवक्ष्यते कथयिष्यते। किंविशिष्टः ? महानुदयस्तत्कार्यञ्च निःश्रेयसमस्माद् भवतीति * महोदयः * इति ।
10
द्रव्यगुणकर्म सामान्यविशेषसमवायानां पण्णा पदार्थानां साधर्म्यवैधाच्या तत्त्वज्ञानं निःश्रेयसहेतुः ।
‘पदार्थधर्मसङ्ग्रह' इत्यादिसामान्योविभजनाय' द्रव्यादिवास्यम् । तच्च विशेषोपदर्शनाच्छेपप्रतिपेवपरम्, भवत्येव विभागाच्नेयत्तावधारणमिति षण्णामेवाभिधानात् षडेव पदार्था इति लभ्यते ।
__ अथ अभावः करमानोपसंख्यायते ? भावोपसर्जनतया प्रतिभासनात् । तथाहि, नाप्रसिद्धभावस द्रावस्य नारिकेरदीपवालिवस्तदभावप्रतीतिरिति भावपरिज्ञानापेक्षित्वादभावस्य न पृथगुपसंख्यानम् । ज्ञाते हि भावे तदभावः प्रतीयत एव । तथाहि, द्रव्यपरिज्ञानात्तदभावपरिज्ञानमे ......... "ज्ञानं लभ्यते । तेषाञ्च प्राधान्यमुपदर्शितमेव ।
* तत्त्वज्ञानम् इति सम्यक्त्वस्य विशेष्यं ज्ञानमिति । न तु तत्त्वञ्च 25 तज्ज्ञानञ्चेति । उभयपदव्यभिचारे सामानाधिकरण्याभावात् । तत्वं हि पृथिव्यां गन्धः,
20
For Private And Personal Use Only