________________
Shri Mahavir Jain Aradhana Kendra
तच्च
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवयवार्थविचारः
कणानत्तीति कणादस्तमिति विशिष्टाहारनिमित्तसंज्ञोपदर्शने नासच्चोद्यनिरास: ।
कणान् वा भक्षयेत् कामं माहिषाणि दधीनि च । इत्यादि युक्तियुक्तम् ।
युक्तिबोवच न प्रवृत्तेः कारणं प्रवृत्ती सत्यां तद्भावात् । तथाहि श्रवणे प्रवर्त्तमानो विजानाति युक्तम्युक्तं वेति । न तदववोधे प्रवृत्तिरितरेतराश्रयत्वप्रसङ्गात् । अतो विशिष्टपुरुषप्रणीतत्वोपबोधे सत्यादी श्रवणे प्रवृत्तिर्युक्ता । तथाहि मनुना प्रणीतं व्यासेन प्रणीतमिति मत्वा प्रवर्तन्ते जनाः ।
तदेवं परापरगुरुनमस्कारापेक्षधर्मविशेषेऽधर्मप्रतिबन्धात् तत्तत्कार्याणामभावे भवत्येवाविघ्नतः शास्त्रपरिसमाप्तिरिति । ननु चायुक्तमेतत् । सत्यपि नमस्कारे शास्त्रपरिसमाप्ते रदर्शनात् कादम्बर्यादी । असत्यपि दर्शनात् प्रमाणतोऽर्थप्रतिपत्त ( न्या. भा. १|१|१) इत्येवमादौं ।
सत्यम् | शास्त्रपरिसमाप्तेः कार्यत्वादवश्यं कारणं वाच्यमित्यन्यस्यासम्भवाद् धर्मविशेषः कारणमिति । स च नमस्कारादन्यस्माद् वा भवतु, न नियम्यत इत्येके । अन्ये तु साधनविशेषाद विशिष्यत इति नमस्कारादेवोपजायते धर्मविशेषः कारणमिति ।
अन्ये तु असच्चोद्यनिरासार्थं कणान् ददातीति, दयत इति वा व्युत्पत्यन्तरमाश्रयन्ते । अत्र किल वैशेषिकसूत्र रचनाकरण इत्युच्यत इति चिन्त्यमेतत् । प्रसिद्धयपरिज्ञान परिहारार्थं चोपात्तमित्यलम् असद्व्याख्यानैरिति ।
तदेवं परापरगुरुनमस्काराद् यतोऽन्तरायप्रध्वंसो यतो वा अन्तेवासी यथोक्तलक्षणसम्पन्नः, अतोऽनन्तरमेव प्रतिपक्ष क्रियानन्तरितः पदार्थवर्मसंग्रहः प्रवक्ष्यत इति ।
For Private And Personal Use Only
१३
5
अथ नमस्काराभावे तर्हि कथं शास्त्रपरिसमाप्तिरिति ? न तत्रापि कार्यसद्भावेन कारणसद्भावसिद्धेः । वाचिकन मस्काराभावेऽपि मानसो नमस्कारों ज्ञायत इति । एकदा हि विशिष्टनमस्कारसद्भावे परिसमाप्तेरुपलम्भादिति । तथाहि, मानसनमस्कारोपचितो वाचिको नमस्कारः परिसमाप्तेः कारणमिष्यते, मानसस्तु केवलोऽपीति । अत एव क्वचिद् वाचिकसद्भावेऽपि मानसनमस्काराभावादपरिसमाप्तिर्युक्तेति । तस्य चाभावः कार्यानुत्पादेनैव ज्ञायत इति । नमस्काराच्च धर्मः सम्पद्यत इत्यागमाद व्याप्तिग्रहणम् । 20 तथा लौकिकोऽपि पुरुषः कृतनमस्त्रियः क्रियाकरणे प्रवर्तमानो दृष्टः किं पुनर्भगवान् मुनिरनवद्यवादी ।
10
15
25