________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
सूत्रस्थ-अथेत्यादिशब्द विचारः
अथेत्यादिवाक्यस्य [ ? ] सूत्रेणापि सम्बन्धो व्याख्यानान्तरमिति मन्यन्ते, तच्चासत् । सर्वस्मिन् व्याख्याने सूत्रितत्वोपदर्शनं भाष्यस्येप्यत एव । अथातो धर्म व्याख्यास्यामः (वै. सू. १।१।१), यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः (वै. सू. १११।२) इति। [पूर्व सूत्रे अथशब्दोऽन्यानन्तर्ये वर्तत इत्यन्यस्यातम्भवान्नमस्कारानन्तरमिति लभ्यते । स च ज्ञानप्रस्तावाद् ईश्वरस्यैवेति। भाष्यकारश्च सूत्रकाराभिमतं परस्य गुरोर्नमस्कारमनूद्यापरस्य नमस्कारं करोतीति व्याख्येयं न तु कणाद एव, स्वात्मनि क्रियाविरोधात् ।
नापि कणान् अत्तोति कणाद इति कणशब्देन स्वकर्मफलस्याभिधानात् कष्टव्युत्पत्त्या संसार्यात्मनः । तन्नमस्कारे प्रयोजनाभावात् ।
अथशब्दार्थः 'अनु' शब्देनोक्त एव। 'अतः' शब्दोऽपि वचनवृत्त्या धर्म व्याख्यास्याम इति, विविधमनेकप्रकारेण यदुत्पद्यते यतश्च नोत्पद्यत इत्या [इति] प्रतिबोधं यावत् तावत् प्रतिपादयिष्याम इति धर्मव्याख्यानार्थमेव पटादार्थोपवर्णनम् । अत एव पदार्थो धर्मः संगृह्यत इति पदार्थधर्मसङ्ग्रह इत्युक्तम् । उत्तरसूत्रस्य तु विवरणं
महोदयः, महानुदयः स्वर्गापवर्गलक्षणोऽस्माइ भवतीति महोदय इत्युक्तम् । धर्मात् सुखं 15 ज्ञानञ्चेति, ज्ञानोत्पत्तौ तस्यैव प्राधान्यान् तदुपसर्जनतया शेपं व्याख्यायत इति ।
अथावयवार्थः।
* प्रणम्य हेतुमीश्वरम्' इति । प्रेयुपसर्गेण प्रणामातिशयं दर्शयति । हेतुत्वं निमित्तकारणत्वम्। तच्चान्येषामप्यस्तीति ईश्वरपदम्। ईश्वरशब्दश्चान्यत्र वर्तमानोऽपि ज्ञानप्रस्तावान्महेश्वर एव वर्तते । शङ्कराज ज्ञानमन्विच्छे १० इति वचनात् ।
ननु व्यर्थं तहि हेतुपदम्, ज्ञानप्रस्तावाद् विशेषणसिद्धः, नैतदेवम् । स्तुतेगणसंकीर्तनरूपतया सकलकार्यकर्तृत्वाभिधानात् । अन्यथा ह्यन्यतराभिधानेनैव गतार्थत्वाद् व्यथं स्यादुभयाभिधानम् ।
तदेवमीश्वरप्रणामानन्तरं मुनि प्रणमति । मुनयश्चान्येऽपि विशिष्टज्ञानवैराग्यवन्तो भवन्तीति विशेषणम्' कणाद इति। विशिष्टज्ञानसम्बन्धित्वञ्च तदभिहितपदार्थानां 25 प्रमाणान्तरेणासाधनाद् विज्ञायते। अत एव तत्त्वज्ञानसद्भावे मिथ्याज्ञानस्य' रागद्वेष
हेतोरभावाद् द्वेषवैराग्यं निश्चीयते ।
For Private And Personal Use Only