________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
४ (A) व्याकरणं
5
www.kobatirth.org
आह- यद्येवं गुरुभावोपक्रम एव भणनीयो न शेषाः, निष्प्रयोजनत्वात् न, गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्; तथा च देश - कालावपेक्ष्य परिकर्म्म - विनाशौ द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्व्वन्नन्तेवासी हरति गुरूणां चेतः । अथवा उपक्रमसामान्याद् ये केचन सम्भविन उपक्रमभेदास्ते सर्वेऽप्युक्ताः ; येनाऽनुर्पयोगिव्युदासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते । तथा चाऽप्रस्तुतार्थाऽपाकरणं प्रस्तुतार्थच नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः, उक्तं 'अप्रस्तुतार्थाऽपाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान्' इति, उक्तः इतरः ।
च
Acharya Shri Kailassagarsuri Gyanmandir
इदानीं शास्त्रीय उच्यते- असौ षड्विधः, तद्यथा - आनुपूर्वी १, नाम २, प्रमाणं ३, वक्तव्यता ४, अर्थाधिकारः ५, समवतार ६ इति । तत्राऽऽनुपूर्वी नाम-स्थापना- द्रव्य10 क्षेत्र - काल-गणनोत्कीर्तन संस्थान सामाचारी भाव-भेदभिन्ना दशप्रकारा, तस्यां यथासम्भ- 10 वमवतारणीयमिदमध्ययनं विशेषतस्तूत्कीर्तनाऽऽनुपूर्व्यं गणनाऽऽनुपूर्व्यं च । उत्कीर्तना नाम-संशब्दना, यथा कल्पाऽध्ययनम् व्यवहाराध्ययनमिति । गणनं परिसङ्ख्यानमेकं द्वे त्रीणि इत्यादि, सा च गणनाऽऽनुपूर्वी त्रिप्रकारा- पूर्वाऽऽनुपूर्वी १ पश्चादाऽऽनुपूर्वी २ अनानु१. ०पयोगिनिष्प्रतिपक्षा - J ॥
For Private And Personal Use Only
उपक्रम
| निक्षेपादि
४ (A)