Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका १०५ (A)
+
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जं वा दोसमयाणंतो, हेहंभूतो निसेवई । होज्जा निदोसवं केण, वियाणंतो तमायरं? ॥ १७५ ॥
हेहम्भूतो नाम गुण-दोषपरिज्ञानविकलोऽशठभावः, स यं दोषमजानानो निषेवते प्रतिसेवते, तमेव दोषं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निर्दोषवान् दोषस्याऽभावो निर्दोषं, तदस्यास्तीति निर्दोषवान् दोषाऽभाववान् भवेत् ? नैव भवतीति भावः, तीव्रदुष्टाध्यव्यसायभावात्। न खलु जानानस्तीव्रदुष्टाध्यवसायमन्तरेण तथा प्रवर्त्तते इति ॥ १७५ ॥ तदेवं दृष्टान्तमभिधायाऽधुना दार्टान्तिकयोजनामाहएमेव य तुल्लम्मि वि, अवराहपयम्मि वट्टिया दो वि ।
गाथा तत्थ वि जहाणुरूवं, दलंति दंडं दुवेण्हं पि ॥१७६॥
१७३-१७७ एवमेव अनेनैव प्रकारेण, अनेनैव दृष्टान्तेनेति भावः, द्वावपि जनौ, आस्तामेक इत्यपि प्रायश्चित्तशब्दार्थः, तुल्येऽपि समानेप्यपराधपदे वर्तितौ, तत्रापि तुल्येऽव्यपराधपदे द्वयोरपि तयो- -
दानभेदे
कारणानि र्यथानुरूपं गीतार्थाऽ-गीतार्थ-यतना-संहननविशेषानुरूपं दण्डं दलयंति प्रयच्छन्ति। तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः॥ १७६ ॥ तदेव- |१०५ (A) १. तमातरं - जेभा खंभा० ॥
For Private And Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280