Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
व्यवहार
सूत्रम् पीठिका
१०६ (B)
कर्तव्या। अथ कथमपि तेनाऽगीतार्थेन भिक्षुणा ज्ञातं भवेत, यथा-अकल्पिकमानीय मह्यं । दीयते इति तदा तदनिच्छन् प्रज्ञाप्यते । तथा चाह- पण्णवणमणिच्छंते इति, अकल्पिकमनिच्छत्यगीतार्थे भिक्षौ प्रज्ञापना कर्त्तव्या । यथा-ग्लानार्थं यदकल्पिकमपि यतनया |* सेव्यते तत्र शुद्धो ग्लानः, यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात्, सोपि च पश्चात् | प्रायश्चित्तेन शोधयिष्यते। न चासावल्पीयान् दोषो नाङ्गीकर्त्तव्यः, उत्तरकालं प्रभूतसंयमलाभात्। तथाहि-चिकित्साकरणतः प्रगुणीभूतः सन् परिपालयिष्यसि चिरकालं संयम, संयमप्रभावतश्च कदाचित् गम्यते तद्भव एव मोक्षः, यदि पुनश्चिकित्सां न कार-यिष्यसि ततस्तदकरणतो मृतः सन्नसंयतो भविष्यसि, असंयतस्य च भूयान् कर्मबन्धः, तस्म्मादल्पेन बह्वन्वेष्यताम्, एतद्विद्वत्ताया लक्षणम्। उक्तं च- 'अप्पेण बहुमेसेज्जा एयं पंडियलक्खणमिति,' [] एवं प्रज्ञापना तरुणे क्रियते। यः पुनः बालः स बालत्वात् यथाभणितं करोत्येव। ___ यस्तु वृद्धस्तरुणो वाऽतिरोगग्रस्तोऽविचिकित्सनीयः स प्रोत्साह्यते 'महानुभाव ! कुरु भक्तप्रत्याख्यानं, साधय पूर्वमहर्षिरिवोत्तमार्थम् एतज्जिनवचनाधिगमफलमिति।' यदि पुन१. ०मभावात् - वा० पु० ॥ २. सन् पालयिष्यति चि० वा० मो० पु० ॥३. ०मलाभवत० पु. प्रे.॥ ४ प्रोच्यते-खं ॥
गाथा १७८-१८० चिकित्सा
विधि स्वरूपम्
१०६ (B)
For Private And Personal Use Only

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280