Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०८ (A) दार्टान्तिकयोजना त्वेवं- यदि प्रभूतमायुः सम्भाव्यते, प्रगुणीकृतदेहश्च संयमव्यापारेषु समर्थ इति ज्ञायते, तदाऽधिककालसंयमपरिपालनाय युक्ता चिकित्सा, 'अल्पेन प्रभूतमन्वेषयेद्' इति वचनात् । यदा त्वाऽऽयुः संदिग्धं, न प्रगुणीकृतोऽपि देहः संयमव्यापारक्षमः, तदैवं प्रज्ञापना निष्फला चिकित्सेति न चिकित्सा कारयितुमुचितेति ॥ १८० ॥ अन्यच्च संदेहियमारोग्गं, पउणो वि न पच्चलो ये जोगाणं । इइ सेवंतो दप्पे, वट्टइ न य सो तेहा कजो ॥ १८१ ॥ संदिग्धमारोग्यमिति, रोगग्रस्तत्वात् । न च प्रगुणोऽपि प्रगुणीकृतोऽपि योगानां संयमव्यापाराणां करणे प्रत्यल: समर्थ इति जानानो यदि यतनयाप्यकल्प्यं प्रतिसेवते, तदा स दऐं वर्त्तते, न च स तथारूपो दो गीतार्थेन करणीयः दर्पिकप्रतिसेवनाया दीर्घसंसारमूलत्वात् इति प्रज्ञाप्यते। यदि पुनरेवमपि प्रज्ञाप्यमानो नाऽवबुध्यते तदा यतनया गाथा १८१-१८२ चिकित्सा विधि स्वरूपम् १०८ (A) १. दाष्र्टान्तिके यो० खं० ॥२. कृतश्च देहः सं० वा० मे० पु० मु० ॥ ३. तदा चिरकाल० वा० भो० पु० मु० ॥ ४. तु मु भाष्यप्रतिषु ॥५. तधा गीते- जेभा० खंभा० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280