Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका १०७ (A)
रेवमुत्साह्यमानोऽपि न भक्तप्रत्याख्यानं कर्तुमिच्छति, तदा भण्डी-पोताभ्यां दृष्टान्तः करणीयः, भण्डी-गन्त्री, पोतः-प्रवहणं, दृष्टान्तकरणं चाऽग्रे स्वयमेव दर्शयिष्यति। एष गाथासमासार्थः ॥१७८ ॥ साम्प्रतमेनामेव गाथां विवृणोति
सुद्धाला. अगीते, अजयणकरणकहणे भवे गुरुगा । कुज्जा व अतिपसंगं, असेवमाणे व असमाही ॥ १७९ ॥
अगीते अगीतार्थे भिक्षौ शुद्धाऽलाभे प्रासुकैषणीयाऽलाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियते कथ्यते वा तदा मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति गुरुकाश्चत्वारो मासा गुरवः। इयमत्र भावना-यदि अयतनाकरणतः कथनतो वा ज्ञातं भवति, यथा- 'ममाऽशुद्धेन चिकित्सा क्रियते', तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः। एतच्चाऽसामाचारीप्रवृत्तिनिषेधार्थं प्रायश्चित्तम्। या पुनरनिच्छतोऽसमाधिप्रवृत्तेरनागाढादिपरितापना तन्निष्पन्नमन्यदेव पृथगिति, यदि वा सोऽतिपरिणामकत्वादतिप्रसङ्गं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकल्पनीयमसेवमाने रोगवृद्धिवशादसमाधि
गाथा १७८-१८० चिकित्सा
विधि स्वरूपम्
१०७ (A)
१. भेऽगीते - खं. पु.॥
For Private And Personal Use Only

Page Navigation
1 ... 273 274 275 276 277 278 279 280