Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०४ (A) विभवानुरूपो [दोषानुरूप:] विभवानुरूपश्च । तथाहि- महत्यपराधे महान् दण्डः, अल्पेऽल्पीयान्, तथा समानेऽपि दोषेऽल्पधनस्याऽल्पो महाधनस्य महान् । लोकेऽपि तावदेवं, किमुत किंपुन: औत्तरिके लोकोत्तरसंबन्धिनि व्यवहारे, तत्र सुतरां दोष-सामर्थ्यानुरूपो दण्डः, तस्य सकलजगदनुकम्पाप्रधानत्वात् । यदि पुनरल्पेपि दोषे महान् दण्डो महत्यप्यल्पीयान् तथा यदि समानेप्यपराधे कृतकरणत्वमकृतकरणत्वं चाऽऽचार्योपाध्याययोः भिक्षोरपि कृतकरणत्वमकृतकरणत्वमधिगतत्वमनधिगतत्वं स्थिरत्वमस्थिरत्वं चानपेक्ष्य न तदनुरूपो दण्ड: स्यात्, किन्तु तुल्य एव, तदा व्यवस्थाया अभावतः सन्तानप्रवृत्त्यसम्भवे तीर्थोच्छेदः स्यात् । तथा निरनुकम्पा अनुकम्पाया अभावः प्रायश्चित्तदायकस्य, असमर्थभिक्षुप्रभृतीनामननुग्रहात्, न च तस्य प्रायश्चित्तदायकस्य विशोधिः अप्रायश्चित्तस्य [प्रायश्चित्ते] प्रायश्चित्तेप्यति- | मात्रप्रायश्चित्तस्य दानतो महाऽऽशातना सम्भवात् । [सुत्ते य इमं भणियं] 'अप्पच्छित्ते य देइ पच्छित्तं । पच्छित्ते अइमत्तं, आसायणा तस्स महती उ' [ उपदेशमाला गा. ४०९] इति वचनात् । ततः सापेक्षा आचार्यादयस्त्रिविधा उक्ताः॥ १७२॥ अत्रैव प्रकारान्तर-माह- | गाथा १७३-१७७ प्रायश्चित्तदानभेदे कारणानि १०४ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280