Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पीठिका ९२ (२) तद्यथा-सापेक्षाः खलु तथैव निरपेक्षाः, सह अपेक्षा गच्छस्येति गम्यते येषां ते सापेक्षा गच्छवासिनः, निर्गता अपेक्षा येभ्यस्ते निरपेक्षाः, तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः, तद्यथा-जिनकल्पिकाः शुद्धपरिहारविशुद्धिका यथालन्दकल्पिकाश्च। एते नियमतः कृतकरणा एव, अकृतकरणानामेकस्याऽपि कल्पस्य प्रतिपत्त्ययोगात्। सापेक्षा अपि त्रिविधा आचार्यादयः। तद्यथा-आचार्या उपाध्याया भिक्षवश्च। एते प्रत्येकं द्विधा भूयो भवन्ति तद्यथा- आचार्याः कृतकरणा अकृतकरणाश्च, उपाध्याया अपि कृतकरणा अकृतकरणाश्च, भिक्षवोऽपि कृतकरणा अकृतकरणाश्च। तत्र कृतकरणानां चिन्त्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः ॥ १५९ ॥ अकयकरणा वि दुविहा, अणहिगया अहिगया य बोधव्वा । जं सेवेइ अहिगओ, अणहिगए अत्थिरे इच्छा ॥ १६० ॥ इहाऽऽचार्या उपाध्यायाश्च कुतकरणा अकतकरणा वा नियमात गीतार्थाः स्थिराश्च तत इहाऽकृतकरणा भिक्षव एव ग्राह्याः। ते अकृतकरणा भिक्षवो द्विविधाः, तद्यथाअनधिगता अधिगताश्च। अनधिगता नाम अगीतार्थाः, अधिगता गीतार्थाः। अपिशब्द: गाथा १६०-१६२ प्रायश्चित्तप्रकारादि ९२ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280