________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
पीठिका
९२ (२)
तद्यथा-सापेक्षाः खलु तथैव निरपेक्षाः, सह अपेक्षा गच्छस्येति गम्यते येषां ते सापेक्षा गच्छवासिनः, निर्गता अपेक्षा येभ्यस्ते निरपेक्षाः, तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः, तद्यथा-जिनकल्पिकाः शुद्धपरिहारविशुद्धिका यथालन्दकल्पिकाश्च। एते नियमतः कृतकरणा एव, अकृतकरणानामेकस्याऽपि कल्पस्य प्रतिपत्त्ययोगात्। सापेक्षा अपि त्रिविधा आचार्यादयः। तद्यथा-आचार्या उपाध्याया भिक्षवश्च। एते प्रत्येकं द्विधा भूयो भवन्ति तद्यथा- आचार्याः कृतकरणा अकृतकरणाश्च, उपाध्याया अपि कृतकरणा अकृतकरणाश्च, भिक्षवोऽपि कृतकरणा अकृतकरणाश्च। तत्र कृतकरणानां चिन्त्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः ॥ १५९ ॥
अकयकरणा वि दुविहा, अणहिगया अहिगया य बोधव्वा । जं सेवेइ अहिगओ, अणहिगए अत्थिरे इच्छा ॥ १६० ॥
इहाऽऽचार्या उपाध्यायाश्च कुतकरणा अकतकरणा वा नियमात गीतार्थाः स्थिराश्च तत इहाऽकृतकरणा भिक्षव एव ग्राह्याः। ते अकृतकरणा भिक्षवो द्विविधाः, तद्यथाअनधिगता अधिगताश्च। अनधिगता नाम अगीतार्थाः, अधिगता गीतार्थाः। अपिशब्द:
गाथा १६०-१६२ प्रायश्चित्तप्रकारादि
९२ (A)
For Private And Personal Use Only