________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पीठिका
९१ (B)
www.kobatirth.org
वट्टंतस्स अकप्पे, पच्छित्तं तस्स वण्णिया भेदा ।
जे पुण पुरीसज्जाया, तस्सरिहा ते इमे होंति ॥ १५८ ॥
इह 'कल्पे वर्त्तमानस्य सूत्रोक्तविधिना यतनया प्रवृत्तेः प्रायः प्रायश्चित्तविषयतैव नोपजायते' इत्यकल्पग्रहणम् । अकल्पे दर्पादौ वर्त्तमानस्य यत् प्रायश्चित्तं तस्य ये भेदाः प्रतिसेवना-संयोजनादयस्ते वर्णिताः । ये पुनस्तस्य प्रायश्चित्तस्याऽर्हा योग्याः पुरुषजाताः पुरुषप्रकाराः, पुरुषभेदा इत्यर्थः, इमे वक्ष्यमाणस्वरूपा भवन्ति ॥ १५८ ॥ तानेव
दर्शयति
कयकरणा इयरे वा, सावेक्खा खलु तहेव निरवेक्खा । निरवेक्खा जिणमादी, सावेक्खा आयरियमादी ॥ १५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृतकरणा नाम षष्ठाऽष्टमादिभिर्विविधतपोविधानैः परिकर्म्मितशरीराः । इतरे अकृतकरणाः षष्ठाऽष्टमादिभिस्तपोविशेषैरपरिकर्म्मितशरीराः । तत्र ये कृतकरणास्ते द्विविधाः,
For Private And Personal Use Only
गाथा
१५५-१५९
व्यवहारस्य
नामादिभेदाः
९१ (B)