SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ९१ (A) स चार्थविशेषोऽत्राऽप्यस्ति यथोक्तं प्राक। अपि च- 'अभिधानाभेदत' इति यद् उक्तं तत् प्रत्यक्षविरुद्धं, व्यञ्जनभेदस्य साक्षादुपलभ्यमानत्वात्, तथाहि-एकत्र कल्प इति अपरत्र व्यवहार इति ॥ १५६ ॥ अथाऽर्थगत्याऽभिधानाऽभेद उच्यते, न स्वरूपतः, तदप्यसत्, अर्थविशेषस्याप्युभयत्र भावात्। तथा चाह वंजणेण य नाणत्तं, अस्थतो अविकप्पियं । दिस्सए कप्पनामस्स, ववहारस्स तहेव य ॥१५७ ॥ कल्पनाम्नःअध्ययनस्य तथैव च व्यवहारस्य व्यवहाराध्ययनस्य दृश्यते व्यञ्जनेन | व्यञ्जनभेदेन नानात्वं, प्रत्यक्षतः एव पृथग्विभिन्नानां व्यञ्जनानामुपलभ्यमानत्वात् । तथाऽर्थतः अर्थमाश्रित्यास्ति नानात्वम् अविकल्पितं निश्चितं प्रायश्चित्तभेदानां प्रतिसेवनासंयोजनादीनां प्रायश्चित्तार्हपुरुषजातानां च कल्पाध्ययनानुक्तानामिह व्यवहारेऽभिधानात् ॥१५७॥ 'तदेवम्'अज्झयणाण विसेसो' [गा.३४] इति द्वारं व्याख्यातम्। इदानीं 'तदरिहपरिसा य' [गा.३४] इत्येतत् द्वारं व्याचिख्यासुः 'इहई भणिया पुरिसजाया' [गा.१४९] इत्यवयवं व्याख्यानयन्नाह१. इत्येतदवयवं - मो० ॥ गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः ९१ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy