________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ९२ (B)
सम्भावने, स चैतत्सम्भावयति- ये भिक्षवोऽनधिगतास्ते द्विविधाः, तद्यथा- स्थिरा अस्थिराश्च । स्थिरा नाम धृतिसंहननसंपन्नाः, तद्विपरीता अस्थिराः । अधिगता अपि द्विविधाःस्थिरा अस्थिराश्च। कृतकरणा अपि भिक्षवो द्विविधा अनधिगताः अधिगताश्च। अनधिगता द्विधा स्थिरा अस्थिराश्च। अधिगता अपि द्विविधाः- स्थिरा अस्थिराश्च। अत्रैव संक्षेपतः प्रायश्चित्तदानविधिमाह-जं सेवेइ इत्यादि, यत् प्रायश्चित्तस्थानं सेवते प्रतिसेवते अधिगतः गीतार्थः, उपलक्षणमेतत्, कृतकरणः स्थिरश्च तस्मै तदेव परिपूर्णं दीयते। तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगते अस्थिरे चशब्दाद् अकृतकरणे च गुरोः प्रायश्चित्तदानविधौ | इच्छा सूत्रोपदेशानुसारेण स्वेच्छा। तथाहि- यदि श्रुतोपदेशानुसारतः कृतकरणः | स्थिरोऽधिगत इति वा कृतकरर्णादिभिरपि समर्थ इति विज्ञातो भवति तदा यदेव | प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते। अथाऽसमर्थ इति परीक्षितस्ततो यत्प्रायश्चित्तं | प्राप्तस्तस्याक्तिनमनन्तरं दीयते, तत्राप्यसमर्थतायां ततोऽप्यनन्तरं, तत्राप्यसामर्थ्य ततोऽप्यनन्तरम्, एवं यथापूर्वं क्रमेण तावन्नेयं यावन्निर्विकृतिकं, तत्राप्यसमर्थतायां पौरुषी१. ०णादिरपि - खं. मो. मु० ॥
गाथा १६०-१६२ प्रायश्चित्तप्रकारादि
९२ (B)
For Private And Personal Use Only