________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
९३ (A)
www.kobatirth.org
प्रत्याख्यानं, तत्राप्यशक्तौ नमस्कारसहितम् । गाढग्लानत्वादिना तस्याप्यसम्भवे एवमेव आलोचनामात्रेण शुद्धयापादनमिति ॥ १६० ॥ सम्प्रति पुरुषभेदमार्गणायामेव प्रकारान्तरमाह— अहवा साविक्खियरे निरवेक्खी सव्वसो उ कयकरणा ।
इयरे कयाsकया वा, थिराऽथिरा होंति गीयत्था ॥ १६९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
अथवेति प्रकारान्तरद्योतनार्थः । तच्च प्रकारान्तरमिदं पूर्वं कृतकरणाऽकृतकरणभेदावादौ कृत्वा पुरुषभेदमार्गणा कृता, अत्र तु सापेक्ष - निरपेक्षभेदौ । तथा चाहसाविक्खियरेत्ति, द्विविधाः प्रायश्चित्तार्हाः पुरुषाः, तद्यथा - सापेक्षा इतरे च, सापेक्षा गच्छ्वासिनः, ते च त्रिधा - आचार्या उपाध्याया भिक्षवः । निरपेक्षा जिनकल्पिकादयः । तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणाः, तुशब्दस्य समुच्चयार्थत्वाद् अधिगताः १६०-१६२ स्थिराश्च, इतरे सापेक्षा द्विविधाः । तद्यथा- कयाsकया वा इति, 'पदैकदेशे पदसमुदायोपचारात्' कृतकरणा अकृतकरणाश्च । वाशब्दः समुच्चये, कृतकरणा अपि
प्रायश्चित्तप्रकारादि
९३ (A)
१. ०क्खा नियमसो तुक• जेभा० खंभा• । क्ख सव्वहा उ क० चतसृष्वपि टीका प्रतिषु मुद्रिते च ॥ २. च - वा० पु० ॥
For Private And Personal Use Only