________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका
९३ (B)
'द्विविधा- स्थिरा अस्थिराश्च। अकृतकरणा अपि द्विविधा:- स्थिरा अस्थिराश्च। एकैके द्विधा-गीतार्था अगीतार्थाश्च। सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः ॥१६१ ॥ अथ किंस्वरूपाः कृतकरणाः? इति कृतकरणस्वरूपमाह
छट्ठट्ठमाइएहिं, कयकरणा ते ये उभयपरियाए । 'अहिगयकयकरणत्तं, जोगाऽऽयतगारिहा केई ॥ १६२ ॥
कृतकरणा नाम ये षष्ठाऽष्टमादिभिस्तपोविशेषैः उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये चेत्यर्थः. परिकर्मितशरीरास्ते ज्ञातव्याः। तद्विलक्षणा इतरे सामर्थ्याद् अकृतकरणाः। अत्रैव मतान्तरमाह- अहिगयेत्यादि, केचिदाचार्या 'ये अधिगतास्ते नियमात् कृतकरणाः' इति अधिगतानां कृतकरणत्वमिच्छन्ति, कस्मात्? इति चेत्, अत आह-जोगायतगारिहा इति, 'निमित्त-कारण-हेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्'[ ] इति |* वृद्धवैयाकरणप्रवादाद् हेतावत्र प्रथमा; ततोऽयमर्थः यतस्तैर्महाकल्प-श्रुतादीनामायतकाला १. द्विधा - वा. मो० पु० मु० ॥२. उ-मो० मु० भाष्यप्रतिषु च ॥ ३. अभिगते - जेभा० खंभा० ॥ ४. जोगा य तवारिहा -भाष्यप्रतिषु ॥
गाथा १६०-१६२ प्रायश्चित्तप्रकारादि
९३ (B)
For Private And Personal Use Only