Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका
९१ (A)
स चार्थविशेषोऽत्राऽप्यस्ति यथोक्तं प्राक। अपि च- 'अभिधानाभेदत' इति यद् उक्तं तत् प्रत्यक्षविरुद्धं, व्यञ्जनभेदस्य साक्षादुपलभ्यमानत्वात्, तथाहि-एकत्र कल्प इति अपरत्र व्यवहार इति ॥ १५६ ॥ अथाऽर्थगत्याऽभिधानाऽभेद उच्यते, न स्वरूपतः, तदप्यसत्, अर्थविशेषस्याप्युभयत्र भावात्। तथा चाह
वंजणेण य नाणत्तं, अस्थतो अविकप्पियं । दिस्सए कप्पनामस्स, ववहारस्स तहेव य ॥१५७ ॥
कल्पनाम्नःअध्ययनस्य तथैव च व्यवहारस्य व्यवहाराध्ययनस्य दृश्यते व्यञ्जनेन | व्यञ्जनभेदेन नानात्वं, प्रत्यक्षतः एव पृथग्विभिन्नानां व्यञ्जनानामुपलभ्यमानत्वात् । तथाऽर्थतः अर्थमाश्रित्यास्ति नानात्वम् अविकल्पितं निश्चितं प्रायश्चित्तभेदानां प्रतिसेवनासंयोजनादीनां प्रायश्चित्तार्हपुरुषजातानां च कल्पाध्ययनानुक्तानामिह व्यवहारेऽभिधानात् ॥१५७॥ 'तदेवम्'अज्झयणाण विसेसो' [गा.३४] इति द्वारं व्याख्यातम्। इदानीं 'तदरिहपरिसा य' [गा.३४] इत्येतत् द्वारं व्याचिख्यासुः 'इहई भणिया पुरिसजाया' [गा.१४९] इत्यवयवं व्याख्यानयन्नाह१. इत्येतदवयवं - मो० ॥
गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः
९१ (A)
For Private And Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280