Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
९० (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दस्य भेदः इति चतुर्थः ४ ॥ १५५ ॥ एतेष्वेव चतुर्षु भङ्गकेषु क्रमेणोदाहरणान्युपदर्शयति
पढमो इंद इंदोत्ति, बिइयओ होइ इंद सक्कोत्ति ।
तइओ गो भू-पसुरस्सिणो त्ति चरमो घडपडो त्ति ॥ १५६ ॥
प्रथमो भङ्गोऽर्थाभेदः शब्दाऽभेदः इत्येवंरूपः यथा इन्द्र इन्द्र इति । तथाहि - एकेनापि इन्द्र इत्युक्तं द्वितीयेनापि इन्द्र इति, अत्र च द्वयोरपि शब्दयोः स्वरूपाऽभेदोऽर्थाभेदश्च १ । द्वितीयोऽर्थाभेदः शब्दस्य भेद इतिरूपः यथा - इन्द्रः शक्र इति, अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थिकत्वात् २। तृतीयोऽर्थस्यभेदः शब्दस्याऽभेद इत्येवंलक्षणो यथा भू-पशु-रश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः, अत्र हि गौरिति सर्वत्राप्यभिन्नं रूपं, अर्थस्तु भिन्न इति३ । चरमो यथा घटः पट इति, अत्र हि द्वयोरपि शब्दयोः रूपभेदोऽप्यस्ति अर्थभेदोऽपि ४ । तत उपपद्यते शब्दाभेदेऽपि अर्थनानात्वमर्थाभेदेऽपि शब्दनानात्वं तेन यदुच्यते 'अभिधानाभेदतो नास्ति विशेष' इति तदनैकान्तिकमुपदर्शितम् । भू- पशु - रश्मिवाचिनां गोशब्दानामभिधानाभेदेप्यर्थविशेषदर्शनात् ९० (B)
१. चरिमो - तिसृष्वपि भाष्यप्रतिषु ॥
For Private And Personal Use Only
गाथा
१५५-१५९ व्यवहारस्य
नामादिभेदाः

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280